Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 6
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - दीर्घायु सूक्त

    त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥

    स्वर सहित पद पाठ

    त्रे॒धा । जा॒तम् । जन्म॑ना । इ॒दम् । हिर॑ण्यम् । अ॒ग्ने: । एक॑म् । प्रि॒यऽत॑मम् । ब॒भू॒व॒ । सोम॑स्य । एक॑म् । हिं॒सि॒तस्य॑ । परा॑ । अ॒प॒त॒त् । अ॒पाम् । एक॑म् । वे॒धसा॑म् । रेत॑: ।आ॒हु॒: । तत् । ते॒ । हिर॑ण्यम् । त्रि॒ऽवृत् । अ॒स्तु॒ । आयु॑षे ॥२८.६॥


    स्वर रहित मन्त्र

    त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥

    स्वर रहित पद पाठ

    त्रेधा । जातम् । जन्मना । इदम् । हिरण्यम् । अग्ने: । एकम् । प्रियऽतमम् । बभूव । सोमस्य । एकम् । हिंसितस्य । परा । अपतत् । अपाम् । एकम् । वेधसाम् । रेत: ।आहु: । तत् । ते । हिरण्यम् । त्रिऽवृत् । अस्तु । आयुषे ॥२८.६॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 6

    टिप्पणीः - ६−(त्रेधा) त्रिप्रकारेण (जातम्) उत्पन्नम् (जन्मना) उत्पत्त्या (इदम्) (हिरण्यम्) अ० १।९।२। कमनीयं तेजः। ब्रह्म (अग्नेः) भौतिकाग्नेः (एकम्) (प्रियतमम्) अतिशयप्रीतिकरम् (सोमस्य) चन्द्रस्य (एकम्) तेजः (हिंसितस्य) पीडितस्य। अन्धकारयुक्तस्येत्यर्थः (परा) पृथग्भावे (अपतत्) अधोऽगच्छत् सूर्यमण्डलात् (अपाम्) जलधाराणाम् (एकम्) तेजः (वेधसाम्) विधात्रीणाम् उत्पादयित्रीणाम् (रेतः) बीजम् (आहुः) कथयन्ति विद्वांसः (तत्) पूर्वोक्तम् (हिरण्यम्) (त्रिवृत्) म– २। त्रिवृतिः। त्रिजीवनसाधनम् (अस्तु) भवतु (आयुषे) अ० १।३०।३। जीवनवर्धनाय ॥

    इस भाष्य को एडिट करें
    Top