अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 11
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
पुरं॑ दे॒वाना॑म॒मृतं॒ हिर॑ण्यं॒ य आ॑बे॒धे प्र॑थ॒मो दे॒वो अग्रे॑। तस्मै॒ नमो॒ दश॒ प्राचीः॑ कृणो॒म्यनु॑ मन्यतां त्रि॒वृदा॒बधे॑ मे ॥
स्वर सहित पद पाठपुर॑म् । दे॒वाना॑म् । अ॒मृतम् । हिर॑ण्यम् । य: । आ॒ऽवे॒धे । प्र॒थ॒म: । दे॒व: । अग्रे॑ । तस्मै॑ । नम॑: । दश॑ । प्राची॑: । कृ॒णो॒मि॒ । अनु॑ । म॒न्य॒ता॒म् । त्रि॒ऽवृत् । आ॒ऽवधे॑ । मे॒ ॥२८.११॥
स्वर रहित मन्त्र
पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे। तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥
स्वर रहित पद पाठपुरम् । देवानाम् । अमृतम् । हिरण्यम् । य: । आऽवेधे । प्रथम: । देव: । अग्रे । तस्मै । नम: । दश । प्राची: । कृणोमि । अनु । मन्यताम् । त्रिऽवृत् । आऽवधे । मे ॥२८.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(पुरम्) पुर अग्रगतौ−क। अग्रगम् (देवानाम्) विदुषाम् (अमृतम्) अमरम् (हिरण्यम्) कमनीयं तेजः (यः) (आबेधे) बध बन्धने लिट्। अहं समन्ताद् बबन्ध (प्रथमः) प्रख्यातः (देवः) प्रकाशमयः परमेश्वरः (अग्रे) पूर्वकाले (तस्मै) सर्वेश्वराय (नमः) सत्कारः (दश) (प्राचीः) अत्यन्तसंयोगे द्वितीया। विस्तीर्णा दिशाः (कृणोमि) करोमि (अनुमन्यताम्) अनुमतमनुकूलं भवतु (त्रिवृत्) म० २। त्रिवृतिः (आबधे) बध बन्धने−लट्। सम्यग्बध्नामि (मे) मह्यम्। आत्मने ॥
इस भाष्य को एडिट करें