अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 3
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
त्रयः॒ पोष॑स्त्रि॒वृति॑ श्रयन्ताम॒नक्तु॑ पू॒षा पय॑सा घृ॒तेन॑। अन्न॑स्य भू॒मा पुरु॑षस्य भू॒मा भू॒मा प॑शू॒नां त॑ इ॒ह श्र॑यन्ताम् ॥
स्वर सहित पद पाठत्रय॑:। पोषा॑: । त्रि॒ऽवृति॑। श्र॒य॒न्ता॒म् । अ॒नक्तु॑ । पू॒षा । पय॑सा । घृ॒तेन॑ । अन्न॑स्य । भू॒मा । पुरु॑षस्य । भू॒मा । भू॒मा । प॒शू॒नाम् । ते । इ॒ह । श्र॒य॒न्ता॒म् ॥२८.३॥
स्वर रहित मन्त्र
त्रयः पोषस्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन। अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥
स्वर रहित पद पाठत्रय:। पोषा: । त्रिऽवृति। श्रयन्ताम् । अनक्तु । पूषा । पयसा । घृतेन । अन्नस्य । भूमा । पुरुषस्य । भूमा । भूमा । पशूनाम् । ते । इह । श्रयन्ताम् ॥२८.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(त्रयः) (पोषाः) पोषणसामर्थ्यानि (त्रिवृति) म० २। त्रिवृतौ हरितरजतायोरूपत्रिसाधने−म० १। (श्रयन्ताम्) आश्रिता भवन्तु। तिष्ठन्तु (अनक्तु) संयोजयतु (पूषा) पोषकोऽधिकारी (पयसा) दुग्धेन (अन्नस्य) कॄवृजॄ०। उ० ३।१०। इति अन जीवने−न, यद्वा अद भक्षणे−क्त। जीवनसाधनस्य भक्षणीयस्य वा पदार्थस्य (भूमा) बहोर्लोपो भू च बहोः। पा० ६।४।१५८। इति बहोरिमनिच् प्रत्ययस्येकारस्य लोपो बहोश्च भूरादेशः। बहुत्वम् (पुरुषस्य) जनस्य (पशूनाम्) गवादिजन्तूनाम् (ते) भूमानः (इह) अस्मिन् संसारे ॥
इस भाष्य को एडिट करें