Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 7
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - पञ्चपदातिशक्वरी सूक्तम् - दीर्घायु सूक्त

    त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम्। त्रे॒धामृत॑स्य॒ चक्ष॑णं॒ त्रीण्यायूं॑षि तेऽकरम् ॥

    स्वर सहित पद पाठ

    त्रि॒ऽआ॒यु॒षम् । ज॒मत्ऽअ॑ग्ने: । क॒श्यप॑स्य । त्रि॒ऽआ॒यु॒षम् । त्रे॒धा । अ॒मृत॑स्य । चक्ष॑णम् । त्रिणि॑ । आयूं॑षि । ते॒ । अ॒क॒र॒म् ॥२८.७॥


    स्वर रहित मन्त्र

    त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम्। त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥

    स्वर रहित पद पाठ

    त्रिऽआयुषम् । जमत्ऽअग्ने: । कश्यपस्य । त्रिऽआयुषम् । त्रेधा । अमृतस्य । चक्षणम् । त्रिणि । आयूंषि । ते । अकरम् ॥२८.७॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 7

    टिप्पणीः - ७−(त्र्यायुषम्) अचतुरविचतुरसुचतुर०। पा० ५।४।७७। इति त्रि+आयुस्−अच् समासान्तः समाहारे। त्रयाणामायुषां जीवनसाधनानां समाहारः−म० १। [अथवा, शुद्धिबलपराक्रमयुक्तं त्रिगुणमायुः] (जमदग्नेः) अ० २।३२।३। प्रज्वलिताग्नेरिव तेजस्विनः पुरुषस्य [अथवा, चक्षुषः=चक्षुरादीन्द्रियाणाम्] (कश्यपस्य) अ० २।३३।७। पश्यकस्य। तत्त्वदर्शिपुरुषस्य [अथवा, आदित्यस्येश्वरस्य व्यवस्थासिद्धम्] (त्र्यायुषम्) त्रयाणां बाल्ययौवनस्थाविराणामायुषां समाहारः [अथवा, ब्रह्मचर्यगृहस्थवानप्रस्थाश्रमसुखसंपादकं त्रिगुणमायुः] (त्रेधा) त्रिप्रकारेण [अथवा, विद्याशिक्षापरोपकारसहितेन त्रिगुणायुषा] (अमृतस्य) नास्ति मृतं मरणं यस्मात् तस्य। अमरणस्य मोक्षस्य (चक्षणम्) दर्शकम् (त्रीणि) (आयूंषि) जीवनसाधनानि−म० १ तथा ३ (ते) तुभ्यम् (अकरम्) अहं कृतवान् ॥

    इस भाष्य को एडिट करें
    Top