अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
नव॑ प्रा॒णान्न॒वभिः॒ सं मि॑मीते दीर्घायु॒त्वाय॑ श॒तशा॑रदाय। हरि॑ते॒ त्रीणि॑ रज॒ते त्रीण्यय॑सि॒ त्रीणि॒ तप॒सावि॑ष्ठितानि ॥
स्वर सहित पद पाठनव॑ । प्रा॒णान् । न॒वऽभि॑: । सम् । मि॒मी॒ते॒ । दी॒र्घा॒यु॒ऽत्वाय॑ । श॒तऽशा॑रदाय । हरि॑ते । त्रीणि॑ । र॒ज॒ते॒ । त्रीणि॑ । अय॑सि ।त्रीणि॑ । तप॑सा । आऽवि॑स्थितानि ॥२८.१॥
स्वर रहित मन्त्र
नव प्राणान्नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय। हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्ठितानि ॥
स्वर रहित पद पाठनव । प्राणान् । नवऽभि: । सम् । मिमीते । दीर्घायुऽत्वाय । शतऽशारदाय । हरिते । त्रीणि । रजते । त्रीणि । अयसि ।त्रीणि । तपसा । आऽविस्थितानि ॥२८.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(नव) (प्राणान्) जीवनसाधनानि (नवभिः) नवभिरिन्द्रियच्छिद्रैः, तानि यथा द्वे श्रोत्रे, चक्षुषी, नासिके, मुखम्, पायूपस्थे (सं मिमीते) माङ् माने−लट्। समीकरोति। संगतान् करोति (दीर्घायुत्वाय) अ० १।३५।१। चिरकालजीवनाय (शतशारदाय) शतशरदृतुयुक्ताय (हरिते) हरति दारिद्र्यम्। हृश्याभ्यामितन्। उ० ३।९३। इति हृञ् हरणे−इतन्। दारिद्र्यहारके पुरुषार्थे (त्रीणि) त्रिसंख्याकानि सुखानि, अन्नपुरुषपशुबहुत्वरूपाणि−म० ३ (रजते) रजति प्रियं भवतीति। पृषिरञ्जिभ्यां कित्। उ० ३।१११। इति रञ्ज रागे−अतच्। प्रियभवे प्रबन्धरूप्ये वा (त्रीणि) तानि पूर्वोक्तानि (अयसि) ईयते प्राप्यते। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति इण् गतौ−असुन्। प्राप्ये कर्मणि सुवर्णे वा−अयो हिरण्यम्−निघ० १।२। (त्रीणि) (तपसा) सामर्थ्येन (आविष्ठितानि) सम्यक् स्थितानि ॥
इस भाष्य को एडिट करें