Loading...
अथर्ववेद > काण्ड 5 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 2
    सूक्त - अथर्वा देवता - अग्न्यादयः छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु सूक्त

    अ॒ग्निः सूर्य॑श्च॒न्द्रमा॒ भूमि॒रापो॒ द्यौर॒न्तरि॑क्षं प्र॒दिशो॒ दिश॑श्च। आ॑र्त॒वा ऋ॒तुभिः॑ संविदा॒ना अ॒नेन॑ मा त्रि॒वृता॑ पारयन्तु ॥

    स्वर सहित पद पाठ

    अ॒ग्नि: । सूर्य॑: । च॒न्द्रमा॑: । भूमि॑: । आप॑: । द्यौ: । अ॒न्तरि॑क्षम् । प्र॒ऽदिश॑: । दिश॑: । च॒ । आ॒र्त॒वा: । ऋ॒तुऽभि॑: । स॒म्ऽवि॒दा॒ना: । अ॒नेन॑ ।मा॒ । त्रि॒ऽवृता॑ । पा॒र॒य॒न्तु॒ ॥२८.२॥


    स्वर रहित मन्त्र

    अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च। आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥

    स्वर रहित पद पाठ

    अग्नि: । सूर्य: । चन्द्रमा: । भूमि: । आप: । द्यौ: । अन्तरिक्षम् । प्रऽदिश: । दिश: । च । आर्तवा: । ऋतुऽभि: । सम्ऽविदाना: । अनेन ।मा । त्रिऽवृता । पारयन्तु ॥२८.२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 2

    टिप्पणीः - २−(अग्निः) पावकः (सूर्यः) (चन्द्रमाः) (भूमिः) (आपः) जलानि (द्यौः) आकाशम् (अन्तरिक्षम्) मध्यलोकः (प्रदिशः) अन्तराला दिशः (दिशः) प्राच्याद्याः (आर्तवाः) अ० ३।१०।९। ऋतुभागाः (ऋतुभिः) कालविशेषैः (संविदानाः) अ० २।२८।२। संगच्छमानाः (अनेन) पूर्वोक्तेन (मा) माम् (त्रिवृता) वृञ् वरणे−क्विप् तुक् च। त्रिवर्तनेन। त्रिजीवनसाधनेन हरितरजतायोरूपेण−म० १। (पारयन्तु) पॄ पालनपूरणयोः। पूर्णं कुर्वन्तु ॥

    इस भाष्य को एडिट करें
    Top