अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 7
क्षी॒रे मा॑ म॒न्थे य॑त॒मो द॒दम्भा॑कृष्टप॒च्ये अश॑ने धा॒न्ये॒ यः। तदा॒त्मना॑ प्र॒जया॑ पिशा॒चा वि या॑तयन्तामग॒दो॒यम॑स्तु ॥
स्वर सहित पद पाठक्षी॒रे । मा॒ । म॒न्थे । य॒त॒म: । द॒दम्भ॑ । अ॒कृ॒ष्ट॒ऽप॒च्ये । अश॑ने । धा॒न्ये᳡ । य: । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चा: । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒द: । अ॒यम् ।अ॒स्तु॒ ॥२९.७॥
स्वर रहित मन्त्र
क्षीरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः। तदात्मना प्रजया पिशाचा वि यातयन्तामगदोयमस्तु ॥
स्वर रहित पद पाठक्षीरे । मा । मन्थे । यतम: । ददम्भ । अकृष्टऽपच्ये । अशने । धान्ये । य: । तत् । आत्मना । प्रऽजया । पिशाचा: । वि । यातयन्ताम् । अगद: । अयम् ।अस्तु ॥२९.७॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(क्षीरे) दुग्धे (मा) माम् (मन्थे) पेयभेदे। तक्रे (यतमः) यः कश्चित् (ददम्भ) वञ्चितवान् (अकृष्टपच्ये) राजसूयसूर्य०। पा० ३।१।११४। इति अकृष्ट+पच पाके−क्यप्। कृष्यादिकं विना स्वयं पक्वे नीवारादौ (अशने) भोजने (धान्ये) अ० ३।२६।३। यवाद्यन्ये ॥
इस भाष्य को एडिट करें