Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 13
    सूक्त - चातनः देवता - जातवेदाः छन्दः - भुरिगनुष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    सोम॑स्येव जातवेदो अं॒शुरा प्या॑यताम॒यम्। अग्ने॑ विर॒प्शिनं॒ मेध्य॑मय॒क्ष्मं कृ॑णु॒ जीव॑तु ॥

    स्वर सहित पद पाठ

    सोम॑स्यऽइव । जा॒त॒ऽवे॒द॒: । अ॒शु: । आ । प्या॒य॒ता॒म् । अ॒यम् । अग्ने॑ । वि॒ऽर॒प्शिन॑म् । मेध्य॑म् । अ॒य॒क्ष्मम् । कृ॒णु॒ । जीव॑तु ॥२९.१३॥


    स्वर रहित मन्त्र

    सोमस्येव जातवेदो अंशुरा प्यायतामयम्। अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥

    स्वर रहित पद पाठ

    सोमस्यऽइव । जातऽवेद: । अशु: । आ । प्यायताम् । अयम् । अग्ने । विऽरप्शिनम् । मेध्यम् । अयक्ष्मम् । कृणु । जीवतु ॥२९.१३॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 13

    टिप्पणीः - १३−(सोमस्य) चन्द्रस्य सोमवृक्षस्य वा (इव) यथा (अंशुः) म० १२। किरणो अङ्कुरो वा (आ) सम्यक् (प्यायताम्) वर्धताम् (अयम्) पुरुषः (अग्ने) विद्वन् (विरप्शिनम्) वि+रप व्यक्तायां वाचि−शक्। विविधं रपणं विरप्शः। तदस्यास्ति, इनि। विरप्शी, महन्नाम−निघ० ३।३। महागुणविशिष्टम् (मेध्यम्) उगवादिभ्यो यत्। पा० ५।१।२। इति मेधा-यत्। मेधायै हितम्। मेधाविनम् (अयक्ष्मम्) नीरोगम् (कृणु) कुरु (जीवतु) सप्राणान् धारयतु ॥

    इस भाष्य को एडिट करें
    Top