अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 2
तथा॒ तद॑ग्ने कृणु जातवेदो॒ विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः। यो नो॑ दि॒देव॑ यत॒मो ज॒घास॒ यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति ॥
स्वर सहित पद पाठतथा॑ । तत् । अ॒ग्ने॒ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: । विश्वे॑भि: । दे॒वै: । स॒ह । स॒म्ऽवि॒दा॒न: । य: । न॒: । दि॒देव॑ । य॒त॒म: । ज॒घास॑ । यथा॑ । स: । अ॒स्य । प॒रि॒ऽधि: । पता॑ति ॥२९.२॥
स्वर रहित मन्त्र
तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः। यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥
स्वर रहित पद पाठतथा । तत् । अग्ने । कृणु । जातऽवेद: । विश्वेभि: । देवै: । सह । सम्ऽविदान: । य: । न: । दिदेव । यतम: । जघास । यथा । स: । अस्य । परिऽधि: । पताति ॥२९.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तथा) तेन प्रकारेण (तत्) तस्मात् (अग्ने) विद्वन् (कृणु) कुरु (जातवेदः) हे प्रसिद्धविद्य (विश्वेभिः) सर्वैः (देवैः) उत्तमगुणैः (सह) सहितः (संविदानः) संगच्छमानः (यः) शत्रुः (नः) अस्मान् (दिदेव) दिवु मर्दने−लिट्, चुरादिः। ममर्द (यतमः) यः कश्चित् (जघास) भक्षितवान् (यथा) येन प्रकारेण (सः) प्रसिद्धः (अस्य) शत्रोः (परिधिः) अ० ४।९।१। प्राकारः (पताति) लेटि रूपम्। अधो गच्छेत् ॥
इस भाष्य को एडिट करें