Loading...
अथर्ववेद > काण्ड 5 > सूक्त 29

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 15
    सूक्त - चातनः देवता - जातवेदाः छन्दः - अनुष्टुप् सूक्तम् - रक्षोघ्न सूक्त

    ता॑र्ष्टा॒घीर॑ग्ने स॒मिधः॒ प्रति॑ गृह्णाह्य॒र्चिषा॑। जहा॑तु क्र॒व्याद्रू॒पं यो अ॑स्य मां॒सं जिही॑र्षति ॥

    स्वर सहित पद पाठ

    ता॒र्ष्ट॒ऽअ॒घी: । अ॒ग्ने॒ । स॒म्ऽइध॑: । प्रति॑ । गृ॒ह्णा॒हि॒ । अ॒र्चिषा॑ । जहा॑तु । क्र॒व्य॒ऽअत् । रू॒पम् । य: । अ॒स्य॒ । मां॒सम् । जिही॑र्षति ॥२९.१५॥


    स्वर रहित मन्त्र

    तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा। जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥

    स्वर रहित पद पाठ

    तार्ष्टऽअघी: । अग्ने । सम्ऽइध: । प्रति । गृह्णाहि । अर्चिषा । जहातु । क्रव्यऽअत् । रूपम् । य: । अस्य । मांसम् । जिहीर्षति ॥२९.१५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 15

    टिप्पणीः - १५−(तार्ष्टाघीः) ञितृषा पिपासायाम्−क्त। तृष्टस्य तृषितस्य भावस्तार्ष्टम्। तृष्ट−अण्। तार्ष्ट+अघि गत्याक्षेपयोः−अच्, ङीप्। आक्षेपो निन्दा। तार्ष्टस्य तृष्णाया लोभस्य निन्दिकाः (अग्ने) विद्वन् (समिधः) विद्यादिप्रकाशक्रियाः (प्रति) निश्चयेन (गृह्णाहि) गृहाण (अर्चिषा) अ० १।२५।२। पूजया (जहातु) नाशयतु (क्रव्यात्) मांसभक्षकः प्राणी दोषो वा (रूपम्) आकारं स्वभावं वा (यः) दुष्टः (अस्य) प्राणिनः (मांसम्) (जिहीर्षति) हर्तुमिच्छति ॥

    इस भाष्य को एडिट करें
    Top