अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 1
सूक्त - चातनः
देवता - आयुः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - दीर्घायुष्य सूक्त
आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥
स्वर सहित पद पाठआ॒ऽवत॑: । ते॒ । आ॒ऽवत॑: । प॒रा॒ऽवत॑: । ते॒ । आ॒ उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ वत॑: । इ॒ह । ए॒व । भ॒व॒ । मा । नु । गा॒: । मा । पूर्वा॑न् । अनु॑ । गा॒: । पि॒तृन् । असु॑म् । ब॒ध्ना॒मि॒ । ते॒ । दृ॒ढम् ॥३०.१॥
स्वर रहित मन्त्र
आवतस्त आवतः परावतस्त आवतः। इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् ॥
स्वर रहित पद पाठआऽवत: । ते । आऽवत: । पराऽवत: । ते । आ उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते वत: । इह । एव । भव । मा । नु । गा: । मा । पूर्वान् । अनु । गा: । पितृन् । असुम् । बध्नामि । ते । दृढम् ॥३०.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(आवतः) उपसर्गाच्छन्दसि धात्वर्थे। पा० ५।१।११८। इति उपसर्गाद् धात्वर्थे वर्त्तमानात् स्वार्थे वतिः। आगतात् समीपात् स्थानात् (ते) तव (आवतः) समीपात् (परावतः) परा-वति। दूरगतात् स्थानात् (ते) (आवतः) अतिसमीपात् (इह) उत्साहिनां मध्ये (एव) अवधारणे (भव) तिष्ठ। कीर्तिं प्राप्नुहि (नु) निश्चये (मा मा गाः) अ० ५।१९।९। कदापि मा गच्छ (पूर्वान्) पूर्वजान् (अनु) अनुसृत्य (गाः) लोडर्थे लुङ्। गच्छ (पितॄन्) पितृवत् सत्करणीयान् (असुम्) प्राणम् (बध्नामि) स्थापयामि (ते) तव (दृढम्) दृह वृद्धौ−क्त। प्रगाढम् ॥
इस भाष्य को एडिट करें