अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 4
यदेन॑सो मा॒तृकृ॑ता॒च्छेषे॑ पि॒तृकृ॑ताच्च॒ यत्। उ॑न्मोचनप्रमोच॒ने उ॒भे वा॒चा व॑दामि ते ॥
स्वर सहित पद पाठयत् । एन॑स: । मा॒तृकृ॑तात् । शेषे॑ । पि॒तृऽकृ॑तात् । च॒ । यत् । उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ ॥३०.४॥
स्वर रहित मन्त्र
यदेनसो मातृकृताच्छेषे पितृकृताच्च यत्। उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥
स्वर रहित पद पाठयत् । एनस: । मातृकृतात् । शेषे । पितृऽकृतात् । च । यत् । उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते ॥३०.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(यत्) यदि (एनसः) अ० २।१०।८। अपराधात् (मातृकृतात्) मात्रा निष्पादितात् (शेषे) स्वपिषि। आलस्यं करोषि (पितृकृतात्) जनकेन कृतात्। अन्यद् यथा म० २ ॥
इस भाष्य को एडिट करें