अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 15
मा ते॑ प्रा॒ण उप॑ दस॒न्मो अ॑पा॒नोऽपि॑ धायि ते। सूर्य॒स्त्वाधि॑पतिर्मृ॒त्योरु॒दाय॑च्छतु र॒श्मिभिः॑ ॥
स्वर सहित पद पाठमा । ते॒ । प्रा॒ण: । उप॑ । द॒स॒त् । मो इति॑ । अ॒पा॒न: । अपि॑ । धा॒यि॒ । ते॒ । सूर्य॑: । त्वा॒ । अधि॑ऽपति । मृ॒त्यो: । उ॒त्ऽआय॑च्छतु । र॒श्मिऽभि॑: ॥३०.१५॥
स्वर रहित मन्त्र
मा ते प्राण उप दसन्मो अपानोऽपि धायि ते। सूर्यस्त्वाधिपतिर्मृत्योरुदायच्छतु रश्मिभिः ॥
स्वर रहित पद पाठमा । ते । प्राण: । उप । दसत् । मो इति । अपान: । अपि । धायि । ते । सूर्य: । त्वा । अधिऽपति । मृत्यो: । उत्ऽआयच्छतु । रश्मिऽभि: ॥३०.१५॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(मा) निषेधे (ते) तव (प्राणः) नासाप्रवर्त्ती पूरको वायुः (उप दसत्) दसु उपक्षये। नश्येत् (मो) निषेधे (अपानः) रेचको वायुः (अपि धायि) अपि वा आच्छादने। आच्छादितो भवतु (ते) (सूर्यः) अ० १।३।५। षू प्रेरणे−क्यप्, रुट् च। सर्वप्रेरकः परमेश्वरः (त्वा) (अधिपतिः) प्रभुः (मृत्योः) आलस्यदरिद्रतादिरूपात् मरणात् (उदायच्छतु) यमु उपरमे। उन्नयतु (रश्मिभिः) अ० २।३२।१। अशू व्याप्तौ−मि, रशादेशः। स्वव्याप्तिभिः ॥
इस भाष्य को एडिट करें