अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 13
ऐतु॑ प्रा॒ण ऐतु॒ मन॒ ऐतु॒ चक्षु॒रथो॒ बल॑म्। शरी॑रमस्य॒ सम्वि॑दां॒ तत्प॒द्भ्यां प्रति॑ तिष्ठतु ॥
स्वर सहित पद पाठआ । ए॒तु॒ । प्रा॒ण: । आ । ए॒तु॒ । मन॑: । आ । ए॒तु॒ । चक्षु॑: । अथो॒ इति॑ । बल॑म् । शरी॑रम् । अ॒स्य॒ । सम् । वि॒दा॒म् । तत् । प॒त्ऽभ्याम् । प्रति॑ । ति॒ष्ठ॒तु॒ ॥३०.१३॥
स्वर रहित मन्त्र
ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम्। शरीरमस्य सम्विदां तत्पद्भ्यां प्रति तिष्ठतु ॥
स्वर रहित पद पाठआ । एतु । प्राण: । आ । एतु । मन: । आ । एतु । चक्षु: । अथो इति । बलम् । शरीरम् । अस्य । सम् । विदाम् । तत् । पत्ऽभ्याम् । प्रति । तिष्ठतु ॥३०.१३॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(आ एतु) आगच्छतु (प्राणः) जीवनसामर्थ्यम् (मनः) मनोबलम् (आ एतु) (चक्षुः) दृष्टिः (अथो) अपि च (बलम्) शक्तिः (शरीरम्) देहः (अस्य) पुरुषस्य (सम्) सम्यक् (विदाम्) षिद्भिदादिभ्योऽङ्। पा० ३।३।१०४। इति विद ज्ञाने−अङ्, टाप्। बुद्धिम् (तत्) ततः पुरुषार्थात् (पद्भ्याम्) (प्रति) व्याप्य (तिष्ठतु) स्थितं समर्थं भवतु ॥
इस भाष्य को एडिट करें