अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 6
इ॒हैधि॑ पुरुष॒ सर्वे॑ण॒ मन॑सा स॒ह। दू॒तौ य॒मस्य॒ मानु॑ गा॒ अधि॑ जीवपु॒रा इ॑हि ॥
स्वर सहित पद पाठइ॒ह । ए॒धि॒ । पु॒रु॒ष॒ । सर्वे॑ण । मन॑सा । स॒ह । दू॒तौ । य॒मस्य॑ । मा । अनु॑ । गा॒: । अधि॑ । जी॒व॒ऽपु॒रा: । इ॒हि॒ ॥३०.६॥
स्वर रहित मन्त्र
इहैधि पुरुष सर्वेण मनसा सह। दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥
स्वर रहित पद पाठइह । एधि । पुरुष । सर्वेण । मनसा । सह । दूतौ । यमस्य । मा । अनु । गा: । अधि । जीवऽपुरा: । इहि ॥३०.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इह) अत्र पुरुषार्थिसमाजे (एधि) भव (पुरुष) अ० १।१६।४। हे पौरुषयुक्त (सर्वेण) समस्तेन (मनसा) मनोबलेन (सह) सहितः (दूतौ) अ० १।७।६। संतापकौ प्राणापानौ (यमस्य) मृत्युकालस्य (मा गाः) म० १। मा गच्छ (अनु) अनुसृत्य (अधि इहि) प्राप्नुहि (जीवपुराः) अ० २।९।३। जीवितानां नगरीः ॥
इस भाष्य को एडिट करें