Loading...
अथर्ववेद > काण्ड 5 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 12
    सूक्त - चातनः देवता - आयुः छन्दः - चतुष्पदा विराड्जगती सूक्तम् - दीर्घायुष्य सूक्त

    नमो॑ य॒माय॒ नमो॑ अस्तु मृ॒त्यवे॒ नमः॑ पि॒तृभ्य॑ उ॒त ये नय॑न्ति। उ॒त्पार॑णस्य॒ यो वेद॒ तम॒ग्निं पु॒रो द॑धे॒ऽस्मा अ॑रि॒ष्टता॑तये ॥

    स्वर सहित पद पाठ

    नम॑: । य॒माय॑ । नम॑: । अ॒स्तु॒ । मृ॒त्यवे॑ । नम॑: । पि॒तृऽभ्य॑: । उ॒त । ये । नय॑न्ति । उ॒त्ऽपार॑णस्य । य: ।वेद॑ । तम् । अ॒ग्निम् । पु॒र: । द॒धे॒ । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥३०.१२॥


    स्वर रहित मन्त्र

    नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति। उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥

    स्वर रहित पद पाठ

    नम: । यमाय । नम: । अस्तु । मृत्यवे । नम: । पितृऽभ्य: । उत । ये । नयन्ति । उत्ऽपारणस्य । य: ।वेद । तम् । अग्निम् । पुर: । दधे । अस्मै । अरिष्टऽतातये ॥३०.१२॥

    अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 12

    टिप्पणीः - १२−(नमः) (नमः) वारंवारं सत्कारः (यमाय) न्यायकारिणे परमात्मने (अस्तु) (मृत्यवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इत्यप्रयुज्यमानस्य धातोः कर्मणि चतुर्थी। मृत्युं नाशयितुम् (नमः) (पितृभ्यः) रक्षकेभ्यो महापुरुषेभ्यः (उत) अपि (ये) पितरः (नयन्ति) प्रेरयन्ति (उत्पारणस्य) पार कर्मसमाप्तौ−ल्युट्। उत्कर्षेण पारकरणस्य (यः) परमेश्वरः (वेद) वेत्तास्ति (तम्) (अग्निम्) ज्ञानवन्तं परमेश्वरम् (पुरः दधे) अग्रे धरामि। पूजयामि (अस्मै) पुरुषाय (अरिष्टतातये) अ० ३।५।५। क्षेमकरणाय ॥

    इस भाष्य को एडिट करें
    Top