अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 14
प्रा॒णेना॑ग्ने॒ चक्षु॑षा॒ सं सृ॑जे॒मं समी॑रय त॒न्वा॒ सं बले॑न। वेत्था॒मृत॑स्य॒ मा नु गा॒न्मा नु भूमि॑गृहो भुवत् ॥
स्वर सहित पद पाठप्रा॒णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । सम् । सृ॒ज॒ । इ॒मम् । सम् । ई॒र॒य॒ । त॒न्वा᳡ । सम् । बले॑न । वेत्थ॑ । अ॒मृत॑स्य । मा । नु । गा॒त् । मा । नु । भूमि॑ऽगृह: । भु॒व॒त् ॥३०.१४॥
स्वर रहित मन्त्र
प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन। वेत्थामृतस्य मा नु गान्मा नु भूमिगृहो भुवत् ॥
स्वर रहित पद पाठप्राणेन । अग्ने । चक्षुषा । सम् । सृज । इमम् । सम् । ईरय । तन्वा । सम् । बलेन । वेत्थ । अमृतस्य । मा । नु । गात् । मा । नु । भूमिऽगृह: । भुवत् ॥३०.१४॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(प्राणेन) जीवनसामर्थ्येन (अग्ने) ज्ञानमय परमात्मन् (चक्षुषा) दर्शनशक्त्या (सं सृज) संयोजय (इमम्) पुरुषम् (सम् ईरय) सम्यक् प्रेरय (तन्वा) शरीरेण (सम्) (बलेन) (वेत्थ) वेत्सि। ज्ञातासि (अमृतस्य) अमरणस्य। कीर्त्तिमत्त्वस्य (नु) इदानीम् (मा गात्) न गच्छेत् स पुरुषः (मा) न (नु) (भूमिगृहः) भूमौ गुप्तस्थाने गृहं निवासो अपकीर्त्त्या यस्य सह सः (भुवत्) भवेत् ॥
इस भाष्य को एडिट करें