अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 17
सूक्त - चातनः
देवता - आयुः
छन्दः - त्र्यवसाना षट्पदा जगती
सूक्तम् - दीर्घायुष्य सूक्त
अ॒यं लो॒कः प्रि॒यत॑मो दे॒वाना॒मप॑राजितः। यस्मै॒ त्वमि॒ह मृ॒त्यवे॑ दि॒ष्टः पु॑रुष जज्ञि॒षे। स च॒ त्वानु॑ ह्वयामसि॒ मा पु॒रा ज॒रसो॑ मृथाः ॥
स्वर सहित पद पाठअ॒यम् । लो॒क: । प्रि॒यऽत॑म: । दे॒वाना॑म् । अप॑राऽजित: । यस्मै॑ । त्वम् । इ॒ह । मृ॒त्यवे॑ । दि॒ष्ट: । पु॒रु॒ष॒ । ज॒ज्ञि॒षे । स: । च॒ । त्वा॒ । अनु॑ । ह्व॒या॒म॒सि॒ । मा । पु॒रा । ज॒रस॑: । मृ॒था॒: ॥३०.१७॥
स्वर रहित मन्त्र
अयं लोकः प्रियतमो देवानामपराजितः। यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे। स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥
स्वर रहित पद पाठअयम् । लोक: । प्रियऽतम: । देवानाम् । अपराऽजित: । यस्मै । त्वम् । इह । मृत्यवे । दिष्ट: । पुरुष । जज्ञिषे । स: । च । त्वा । अनु । ह्वयामसि । मा । पुरा । जरस: । मृथा: ॥३०.१७॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(अयम्) दृश्यमानः (लोकः) संसारः (प्रियतमः) अतिहितकरः (देवानाम्) विदुषाम् (अपराजितः) अनभिभूता। सर्वदैवान्वेषणीयः (यस्मै) लोकप्राप्तये (त्वम्) हे मनुष्य (इह) अस्मिन् जन्मनि (मृत्यवे) म० १२। मृत्युं नाशयितुम् (दिष्टः) आदिष्टः। नियतः (पुरुष) हे पुरुषार्थिन् (जज्ञिषे) प्रादुर्बभूविथ (सः) लोकः (च) वयं च (त्वा) पुरुषम् (अनु) अनुक्रमेण (ह्वयामसि) आह्वामः (मा) निषेधे (पुरा) अग्रे (जरसः) जरायाः (मृथाः) माङि लुङि अडभावः। प्राणान् त्यज ॥
इस भाष्य को एडिट करें