अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 10
ऋषी॑ बोधप्रतीबो॒धाव॑स्व॒प्नो यश्च॒ जागृ॑विः। तौ ते॑ प्रा॒णस्य॑ गो॒प्तारौ॒ दिवा॒ नक्तं॑ च जागृताम् ॥
स्वर सहित पद पाठऋषी॒ इति॑ । बो॒ध॒ऽप्र॒ती॒बो॒धौ । अ॒स्व॒प्न: । य: । च॒ । जागृ॑वि: । तौ । ते॒ । प्रा॒णस्य॑ । गो॒प्तारौ॑ । दिवा॑ । नक्त॑म् । च॒ । जा॒गृ॒ता॒म् ॥३०.१०॥
स्वर रहित मन्त्र
ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः। तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥
स्वर रहित पद पाठऋषी इति । बोधऽप्रतीबोधौ । अस्वप्न: । य: । च । जागृवि: । तौ । ते । प्राणस्य । गोप्तारौ । दिवा । नक्तम् । च । जागृताम् ॥३०.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(ऋषी) अ० २।६।१। ऋषिर्दर्शनात्−निरु० २।१। दर्शकौ (बोधप्रतीबोधौ) विवेकचेतने (अस्वप्नः) निद्राहीनः (यः) यः प्रत्येकः (च) (जागृविः) जॄशॄजागृभ्यः क्विन्। उ० ४।५४। इति जागृ निद्राक्षये−क्विन्। जागरूकः। नृपतिः (तौ) (ते) तव (प्राणस्य) जीवस्य (गोप्तारौ) रक्षकौ (दिवा) दिने (नक्तम्) रात्रौ (च) (जागृताम्) जागृतौ भवताम् ॥
इस भाष्य को एडिट करें