अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 11
अ॒यम॒ग्निरु॑प॒सद्य॑ इ॒ह सूर्य॒ उदे॑तु ते। उ॒देहि॑ मृ॒त्योर्ग॑म्भी॒रात्कृ॒ष्णाच्चि॒त्तम॑स॒स्परि॑ ॥
स्वर सहित पद पाठअ॒यम् । अ॒ग्नि: । उ॒प॒ऽसद्य॑: । इ॒ह । सूर्य॑: । उत् । ए॒तु॒ । ते॒ । उ॒त्ऽएहि॑ । मृ॒त्यो: । ग॒म्भी॒रात् । कृ॒ष्णात् । चि॒त् । तम॑स: । परि॑ ॥३०.११॥
स्वर रहित मन्त्र
अयमग्निरुपसद्य इह सूर्य उदेतु ते। उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥
स्वर रहित पद पाठअयम् । अग्नि: । उपऽसद्य: । इह । सूर्य: । उत् । एतु । ते । उत्ऽएहि । मृत्यो: । गम्भीरात् । कृष्णात् । चित् । तमस: । परि ॥३०.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(अयम्) प्रत्यक्षः (अग्निः) सर्वव्यापकः परमेश्वरः (उपसद्यः) सेवनीयः (इह) अत्र। ईश्वरोपासनायाम् (सूर्यः) उन्नतिरूपः सूर्यः (उदेतु) उद्गच्छतु (ते) तुभ्यम् (उदेहि) उदागच्छ (मृत्योः) मरणात्। आलस्यात् (गम्भीरात्) अ० ४।२६।३। गहनात् (कृष्णात्) कालवर्णात् (चित्) अपि (तमसः) अन्धकारात्। अज्ञानात् (परि) पृथग् भूत्वा ॥
इस भाष्य को एडिट करें