अथर्ववेद - काण्ड 4/ सूक्त 40/ मन्त्र 6
ये॑ऽन्तरि॑क्षा॒ज्जुह्व॑ति जातवेदो व्य॒ध्वाया॑ दि॒शोऽभि॒दास॑न्त्य॒स्मान्। वा॒युमृ॒त्वा ते परा॑ञ्चो व्यथन्तां प्र॒त्यगे॑नान्प्रतिस॒रेण॑ हन्मि ॥
स्वर सहित पद पाठये । अ॒न्तरि॑क्षात् । जुह्व॑ति । जा॒त॒ऽवे॒द॒: । वि॒ऽअ॒ध्वाया॑: । दि॒श: । अ॒भि॒ऽदास॑न्ति । अ॒स्मान् । वा॒युम् । ऋ॒त्वा । ते॒ । परा॑ञ्च: । व्य॒थ॒न्ता॒म् । प्र॒त्यक् । ए॒ना॒न् । प्र॒ति॒ऽस॒रेण॑ । ह॒न्मि॒ ॥४०.६॥
स्वर रहित मन्त्र
येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान्। वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान्प्रतिसरेण हन्मि ॥
स्वर रहित पद पाठये । अन्तरिक्षात् । जुह्वति । जातऽवेद: । विऽअध्वाया: । दिश: । अभिऽदासन्ति । अस्मान् । वायुम् । ऋत्वा । ते । पराञ्च: । व्यथन्ताम् । प्रत्यक् । एनान् । प्रतिऽसरेण । हन्मि ॥४०.६॥
अथर्ववेद - काण्ड » 4; सूक्त » 40; मन्त्र » 6
विषय - व्यध्वा दिक् से
पदार्थ -
१. हे (जातवेदः) = सर्वज्ञ प्रभो! (ये) = जो शत्रु (अन्तरिक्षात् जुह्वति) = अन्तरिक्ष से-मध्यलोक से हमें खाने को दौड़ते हैं (व्यध्वायाः) = विविध मागौवाली [अध्वोंवाली] (दिश:) = दिशा से (अस्मान अभिदासन्ति) = हमारा उपक्षय करते हैं, (ते) = वे शत्रु (वायुम्) = गतिशीलता के भाव को-हृदयस्थ कर्मसंकल्प को ऋत्वा-प्राप्त करके (पराञ्चः) = पराङ्मुख होकर (व्यथन्ताम्) = पीड़ित हों। २. (एनान्) = इन शत्रुओं को (प्रतिसरेण) = शरीर में उत्पन्न सोम के अङ्ग-प्रत्यंग में सरण के द्वारा (प्रत्यग् हन्मि) = पराङ्मुख करके नष्ट करता हूँ।
भावार्थ -
हृदयों में कर्मशीलता का संकल्प व्यध्वा दिक् से आक्रमण करनेवाले सब शत्रुओं का विनाश करे।
इस भाष्य को एडिट करें