Loading...
अथर्ववेद > काण्ड 5 > सूक्त 24

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 24/ मन्त्र 1
    सूक्त - अथर्वा देवता - सविता छन्दः - अतिशक्वरी सूक्तम् - ब्रह्मकर्म सूक्त

    स॑वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑वतु। अ॒स्मिन्ब्रह्म॑ण्य॒स्मिन्कर्म॑ण्य॒स्यां पु॑रो॒धाया॑म॒स्यां प्र॑ति॒ष्ठाया॑म॒स्यां। चित्त्या॑म॒स्यामाकू॑त्याम॒स्यामा॒शिष्य॒स्यां दे॒वहू॑त्यां॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    स॒वि॒ता । प्र॒ऽस॒वाना॑म् । अधि॑ऽपति: । स:। मा॒ । अ॒व॒तु॒ । अ॒स्मिन् । ब्रह्म॑णि । अ॒स्मिन् । कर्म॑णि । अ॒स्याम् । पु॒र॒:ऽधाया॑म् । अ॒स्याम् । प्र॒ति॒ऽस्थाया॑म् । अ॒स्याम् । चित्त्या॑म् । अ॒स्याम् । आऽकू॑त्याम् । अ॒स्याम् । आ॒ऽशिषि॑ । अ॒स्याम् । दे॒वऽहू॑त्याम् । स्वाहा॑ ॥२४.१॥


    स्वर रहित मन्त्र

    सविता प्रसवानामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां। चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥

    स्वर रहित पद पाठ

    सविता । प्रऽसवानाम् । अधिऽपति: । स:। मा । अवतु । अस्मिन् । ब्रह्मणि । अस्मिन् । कर्मणि । अस्याम् । पुर:ऽधायाम् । अस्याम् । प्रतिऽस्थायाम् । अस्याम् । चित्त्याम् । अस्याम् । आऽकूत्याम् । अस्याम् । आऽशिषि । अस्याम् । देवऽहूत्याम् । स्वाहा ॥२४.१॥

    अथर्ववेद - काण्ड » 5; सूक्त » 24; मन्त्र » 1

    पदार्थ -

    १. (सविता) = सबको प्रेरणा देनेवाला प्रभु (प्रसवानाम् अधिपतिः) = सब प्रेरणाओं का स्वामी है-वही सबको प्रेरणा देता है-चेताता है। (सः मा अवतु) = वह मेरा रक्षण करे। (अस्मिन्) = इस (ब्रह्मणि) = ज्ञान-प्राप्ति के कर्म में, (अस्मिन् कर्मणि) = इस यज्ञादि कर्म में, (अस्यां पुरोधायाम्) = इस पौरोहित्य में-पुरोहित-कर्म के सम्पादन में, (अस्यां प्रतिष्ठायाम्) = इस प्रतिष्ठा में-शान्तस्थिति में [iranquility, repost], (अस्यां चित्त्याम्) = इस आत्मस्वरूप की स्मृति में, (अस्यां आकूत्याम्) = इस संकल्प में (अस्याम् आशिषि) = इस आशी:-शुभेच्छा में, (अस्या देव-हुत्याम) = इस देवों की प्रार्थना में [हूति आह्वान] स्वाहा-[स्वा आ हा] मैं अपना अर्पण करता है। इसप्रकार जीवन यापन करता हुआ मैं प्रभु रक्षणीय होऊँ।

    भावार्थ -

    वह प्रेरक प्रभु सब प्रेरणाओं का स्वामी है। मैं उसकी प्ररेणाओं को सुनें और उन्हें कार्यान्वित करूँ। प्रभु से रक्षित हुआ-हुआ मैं "ज्ञान-प्राप्ति, यज्ञादिकर्म, पौरोहित्य, शान्तस्थिति, आत्मस्वरूप की स्मृति, उत्तम संकल्प, उत्तमेच्छा व देवों की प्रार्थना' में अपना अर्पण करता हूँ, इन कर्मों में प्रवृत्त हुआ-हुआ जीवन-यज्ञ में आगे बढ़ता हूँ।

    इस भाष्य को एडिट करें
    Top