अथर्ववेद - काण्ड 8/ सूक्त 3/ मन्त्र 11
त्रिर्या॑तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑। तम॒र्चिषा॑ स्फूर्जय॑ञ्जातवेदः सम॒क्षमे॑नं गृण॒ते नि यु॑ङ्ग्धि ॥
स्वर सहित पद पाठत्रि: । या॒तु॒ऽधान॑: । प्रऽसि॑तिम् । ते॒ । ए॒तु॒। ऋ॒तम् । य: । अ॒ग्ने॒ । अनृ॑तेन । हन्ति॑ । तम् । अ॒र्चिषा॑ । स्फू॒र्जय॑न् । जा॒त॒ऽवेद: । स॒म्ऽअ॒क्षम् । ए॒न॒म् । गृ॒ण॒ते । नि । यु॒ङ्ग्धि॒ ॥३.११॥
स्वर रहित मन्त्र
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति। तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥
स्वर रहित पद पाठत्रि: । यातुऽधान: । प्रऽसितिम् । ते । एतु। ऋतम् । य: । अग्ने । अनृतेन । हन्ति । तम् । अर्चिषा । स्फूर्जयन् । जातऽवेद: । सम्ऽअक्षम् । एनम् । गृणते । नि । युङ्ग्धि ॥३.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 3; मन्त्र » 11
विषय - प्रजा पीडकों का दमन।
भावार्थ -
हे (अग्ने) राजन् ! (यः) जो दुष्ट पुरुष (अनृतेन) असत्य से (ऋतम्) सत्य को (हन्ति) मारता है वह (यातुधानः) प्रजा का पीड़क दुष्ट पुरुष ‘यातुधान’, राक्षस है। वह (ते) तेरे (प्र सितिम्) बन्धन में (त्रिः) तीनों प्रकार से या तीन बार (एतु) आवे यदि फिर भी बाज़ न आवे तो हे (जातवेदः) अग्ने ज्ञानवान् राजन् ! (तम्) उसको (अर्चिषा) आग से (स्फूर्जयन्) तड़पाता हुआ, (समक्षम्) सबके सामने (एनम्) इसको (गृणते) अपनी पीड़ा प्रकट करनेवाले प्रजाजन के हित के लिये (नियुधि) दण्ड दे, उसका निग्रह कर।
टिप्पणी -
(च०) ‘मृणते निवृङ्धि’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। अग्निर्देवता, रक्षोहणम् सूक्तम्। १, ६, ८, १३, १५, १६, १८, २०, २४ जगत्यः। ७, १४, १७, २१, १२ भुरिक्। २५ बृहतीगर्भा जगती। २२,२३ अनुष्टुभो। २६ गायत्री। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें