अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 7
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥
स्वर सहित पद पाठप्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभि: । एवै॑: । ह॒तम् । द्रु॒ह: । र॒क्षस॑: । भ॒ङ्गु॒रऽव॑त: । इन्द्रा॑सोमा । दु॒:ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । य: । मा॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हु: ॥४.७॥
स्वर रहित मन्त्र
प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः। इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥
स्वर रहित पद पाठप्रति । स्मरेथाम् । तुजयत्ऽभि: । एवै: । हतम् । द्रुह: । रक्षस: । भङ्गुरऽवत: । इन्द्रासोमा । दु:ऽकृते । मा । सुऽगम् । भूत् । य: । मा । कदा । चित् । अभिऽदासति । द्रुहु: ॥४.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 7
विषय - दुष्ट प्रजाओं का दमन।
भावार्थ -
हे (इन्द्रासोमा) पूर्वोक्त इन्द्र और सोम ! आप दोनों (तुजयद्भिः) बलवान्, तीव्र (एवैः) गति साधनों, रथों से (प्रतिस्मरेथां) दुष्टों के मुकाबले पर आ जाओ। (भङ्गुरावतः) प्रजापीड़क या तुम्हारी आज्ञा के भंग करने वाले या राष्ट्रव्यवस्था के विनाशक (दुहः रक्षसः) द्रोही प्रजापीड़क लोगों को (हतम्) विनष्ट करो। (यः) जो कोई (कदाचित्) कभी भी (मा दुहुः) मेरा द्रोह करता है वह (दुष्कृते) अपने इस दुष्ट कार्य के निमित्त (सुगम्) कभी सुख या सुगम उपाय को (मा भूत्) प्राप्त न हो।
टिप्पणी -
(च०) ‘यो नः कदा’, ‘द्रुहा’ इति ऋ०।
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। इन्द्रासोमौ देवते। रक्षोहणं सूक्तम्। १-३, ५, ७, ८, २१, २४ विराट् जगती। ८-१७, १९, २२, २४ त्रिष्टुभः। २०, २३ भृरिजौ। २५ अनुष्टुप्। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें