अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 16
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
स्वर सहित पद पाठय: । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । य: । वा॒ । र॒क्षा: । शुचि॑: । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तो: । अ॒ध॒म: । प॒दी॒ष्ट॒ ॥४.१६॥
स्वर रहित मन्त्र
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह। इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥
स्वर रहित पद पाठय: । मा । अयातुम् । यातुऽधान । इति । आह । य: । वा । रक्षा: । शुचि: । अस्मि । इति । आह । इन्द्र: । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तो: । अधम: । पदीष्ट ॥४.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 16
विषय - दुष्ट प्रजाओं का दमन।
भावार्थ -
(यः) जो (माम्) मुझको (अयातुस्) प्रजापीड़क या दण्ड्य न होते हुए भी (यातुधान इति आह) प्रजापीड़क, दण्डनीय इस प्रकार बतलावे (वा) और (यः) जो (रक्षाः) स्वयं राक्षस, प्रजा का पीड़क होकर भी अपने को (शुचिः अस्मि) मैं शुचि, निर्दोष हूँ (इति आह) ऐसा कहे (इन्द्रः) राजा (तम्) उसको (महता) बड़े भारी (वधेन) दण्ड से (हन्तु) दण्डित करे। और वह (विश्वस्य जन्तोः) समस्त प्राणियों से (अधमः पदीष्ट) नीचा समझा जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - चातन ऋषिः। इन्द्रासोमौ देवते। रक्षोहणं सूक्तम्। १-३, ५, ७, ८, २१, २४ विराट् जगती। ८-१७, १९, २२, २४ त्रिष्टुभः। २०, २३ भृरिजौ। २५ अनुष्टुप्। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें