अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयाव॑ती: । किय॑ती: । च॒ । इ॒मा: । पृ॒थि॒व्याम् । अधि॑ । ओष॑धी: । ता: । मा॒ । स॒ह॒स्र॒ऽप॒र्ण्य᳡: । मृ॒त्यो: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥७.१३॥
स्वर रहित मन्त्र
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः। ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयावती: । कियती: । च । इमा: । पृथिव्याम् । अधि । ओषधी: । ता: । मा । सहस्रऽपर्ण्य: । मृत्यो: । मुञ्चन्तु । अंहस: ॥७.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 13
विषय - औषधि विज्ञान।
भावार्थ -
(पृथिव्याम्) पृथिवी पर (यावतीः) जितनी (कियतीः च) और कितनी भी (इमाः) ये (ओषधीः) ओषधियां हैं (ताः) वे सब (सहस्रपर्ण्यः) हज़ारों प्रकार के पत्तों वाली (मा) मुझे (मृत्योः) मृत्यु के (अंहसः) दुःख से (मुञ्चन्तु) दूर करें, बचावें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।
इस भाष्य को एडिट करें