Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 11
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥

    स्वर सहित पद पाठ

    अ॒प॒ऽक्री॒ता: । सही॑यसी: । वी॒रुध॑: । या: । अ॒भिऽस्तु॑ता: । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥


    स्वर रहित मन्त्र

    अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः। त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् ॥

    स्वर रहित पद पाठ

    अपऽक्रीता: । सहीयसी: । वीरुध: । या: । अभिऽस्तुता: । त्रायन्ताम् । अस्मिन् । ग्रामे । गाम् । अश्वम् । पुरुषम् । पशुम् ॥७.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 11

    भावार्थ -
    (अप-क्रीताः) दूर देश से द्रव्य के बदले प्राप्त की गई,(सहीयसः) अतिबलशाली (वीरुधः) लताएं, (याः) जिनकी (अभिस्तुताः) सब तरफ प्रशंसा सुनाई दे रही हो वे भी (अस्मिन्) हमारे इस ग्राम में (गाम्, अवम्, पशुम्, पुरुषम्) गौ, घोड़े आदि पशु और पुरुषों को भी (त्रायन्ताम्) रोगों से बचावें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। मन्त्रोक्ताः ओषधयो देवता। १, ७, ९, ११, १३, १६, २४, २७ अनुष्टुभः। २ उपरिष्टाद् भुरिग् बृहती। ३ पुर उष्णिक्। ४ पञ्चपदा परा अनुष्टुप् अति जगती। ५,६,१०,२५ पथ्या पङ्क्तयः। १२ पञ्चपदा विराड् अतिशक्वरी। १४ उपरिष्टान्निचृद् बृहती। २६ निचृत्। २२ भुरिक्। १५ त्रिष्टुप्। अष्टाविंशर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top