अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती
सूक्तम् - आत्मा सूक्त
वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥
स्वर सहित पद पाठवि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑ति: । वि॒ऽराट् । मृ॒त्यु: । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒ज: । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । स: । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥
स्वर रहित मन्त्र
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः। विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥
स्वर रहित पद पाठविऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 24
विषय - आत्मा और परमात्मा का ज्ञान।
भावार्थ -
(विराट्) विराट् (वाक्) वाणी है। (विराट् पृथिवी) विराट् पृथिवी है। (विराट् अन्तरिक्षम्) विराट् अन्तरिक्ष है। (विराट् प्रजापतिः) विराट् प्रजापति है। (विराट् मृत्युः) विराट् मृत्यु है, वही विराट् (साध्यानाम्) समस्त साध्य अर्थात् वश करने योग्य अथवा संसार के पदार्थों के रचने के लिये विशेष नियम में लाने योग्य प्राकृत विकारों तथा साधनासम्पन्न मुमुक्षु जीवों का (अधिराजः) अधीश्वर (बभूव) है। (तस्य वशे) उसके वश में (भूतम्) भूत, उत्पन्न संसार और (भव्यम्) भविष्यत्-कालिक संसार भी है। वह (भूतं भव्यम्) भूतकाल और भविष्यत्काल को (मे वशे कृणोतु) मेरे वश में करे। अर्थात् विराट् शब्द से वाक् पृथिवी, अन्तरिक्ष, प्रजापति, मृत्यु इनका भी ग्रहण है और इन नामों से विराट् परमेश्वर का ग्रहण है इन आठ रूपों को लेकर वाक् और ईश्वरी शक्ति ‘अष्टापदी’ कही गई है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। गौः, विराड् आत्मा च देवताः। १, ७, १४, १७, १८ जगत्यः। २१ पञ्चपदा शक्वरी। २३, २४ चतुष्पदा पुरस्कृतिर्भुरिक् अतिजगती। २, २६ भुरिजौ। २, ६, ८, १३, १५, १६, १९, २०, २२, २५, २७, २८ त्रिष्टुभः। अष्टाविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें