अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 21
सूक्त - दुःस्वप्ननासन
देवता - आसुरी त्रिष्टुप्,त्रिपदा प्राजापत्या त्रिष्टुप्,यजुर्ब्राह्मी एकपदा अनुष्टुप्,त्रिपदा निचृत गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑मृ॒तम॒स्माकं॒ तेजो॒ऽस्माकं॒ ब्रह्मा॒स्माकं॒स्वर॒स्माकं॑य॒ज्ञो॒ऽस्माकं॑ प॒शवो॒ऽस्माकं॑ प्र॒जा अ॒स्माकं॑ वी॒राअ॒स्माक॑म् । तस्मा॑द॒मुं निर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः। स आ॑र्त॒वानां॒ पाशा॒न्मा मो॑चि । तस्येदं वर्च॒स्तेजः॑ प्रा॒णमायु॒र्निवे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उ॒त्ऽभि॑न्नम् । अ॒स्माक॑म् । ऋ॒तम् । अ॒स्माक॑म् । तेज॑: । अ॒स्माक॑म् । ब्रह्म॑ । अ॒स्माक॑म् । स्व᳡: । अ॒स्माक॑म् । य॒ज्ञ: । अ॒स्माक॑म् । प॒शव॑: । अ॒स्माक॑म् । प्र॒ऽजा: । अ॒स्माक॑म् । वी॒रा: । अ॒स्माक॑म् । तस्मा॑त् । अ॒मुम् । नि: । भ॒जा॒म॒: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अ॒सौ । य: । स: । आ॒र्त॒वाना॑म् । पाशा॑त् । मा । मो॒चि॒॥८.२१॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम् । तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः। स आर्तवानां पाशान्मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । ऋतम् । अस्माकम् । तेज: । अस्माकम् । ब्रह्म । अस्माकम् । स्व: । अस्माकम् । यज्ञ: । अस्माकम् । पशव: । अस्माकम् । प्रऽजा: । अस्माकम् । वीरा: । अस्माकम् । तस्मात् । अमुम् । नि: । भजाम: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । असौ । य: । स: । आर्तवानाम् । पाशात् । मा । मोचि॥८.२१॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 21
भाषार्थ -
(जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकंस्वरस्माकंयज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीराअस्माकम्) अर्थ पूर्ववत् (मन्त्र १)। (तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः) अर्थ पूर्ववत् (मन्त्र २)। (सः) वह अपराधी (आर्तवानाम्) आर्तवकाल के (पाशात्) बन्धन से (मोचि, मा) मुक्त न हो। (तस्येदं वर्चस्तेजः प्राणमायुर्निवेष्टयामीदमेनमधराञ्चं पादयामि) अर्थ पूर्ववत् (मन्त्र ४)।
टिप्पणी -
[आर्तवानाम् = इस का अर्थ अनिश्चित है। अथर्ववेद में "आर्तव" शब्द ऋतुसमूह और ऋत्वंश दोनों अर्थों में प्रयुक्त हुआ प्रतीत होता है। "ऋतवस्तमबध्नतार्तवास्तमबध्नत। संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥" (१०।६।१८), में ऋतवः, आर्तवाः, संवत्सरः में उत्तरोत्तर दीर्घकाल प्रतीत होता है। इसी प्रकार "ऋतवः (१५।१६।५), आर्तवाः (१५। १६।६), संवत्सरः (१५।१६।७)" में भी आर्तव काल ऋतुकाल से दीर्घ प्रतीत होता है। अतः आर्तव = ऋतु समूह। परन्तु "ऋतवः पक्तारः, आर्तवाः समिन्धते" (११।३।१७) में ऋतवः को पाककर्ता तथा आर्तवाः को अग्नि प्रदीप्तकर्त्ता कहा है। पहिले अग्नि प्रदीप्त होती है, तदुत्तरकाल में पाकक्रिया होती है। इस से आर्तवकाल ऋतुकाल से अल्प प्रतीत होता है। अतः आर्तव = ऋत्वंश। आप्टे ने भी “आर्तवः" के दो अर्थ दिये हैं, १. A section; २. or the year; “A section" द्वारा ऋत्वंश; तथा “The year" द्वारा ऋतुसमूह अर्थ प्रतीत होते हैं]