अथर्ववेद - काण्ड 5/ सूक्त 18/ मन्त्र 4
सूक्त - मयोभूः
देवता - ब्रह्मगवी
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्। यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ॥
स्वर सहित पद पाठनि: । वै । क्ष॒त्रम् । नय॑ति । हन्ति॑ । वर्च॑: । अ॒ग्नि:ऽइ॑व । आऽर॑ब्ध: । वि । दु॒नो॒ति॒ । सर्व॑म् । य: । ब्रा॒ह्म॒णम् । मन्य॑ते । अन्न॑म् । ए॒व । स: । वि॒षस्य॑ । पि॒ब॒ति॒ । तै॒मा॒तस्य॑ ॥१८.४॥
स्वर रहित मन्त्र
निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम्। यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥
स्वर रहित पद पाठनि: । वै । क्षत्रम् । नयति । हन्ति । वर्च: । अग्नि:ऽइव । आऽरब्ध: । वि । दुनोति । सर्वम् । य: । ब्राह्मणम् । मन्यते । अन्नम् । एव । स: । विषस्य । पिबति । तैमातस्य ॥१८.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 18; मन्त्र » 4
भाषार्थ -
[ब्राह्मण ] (क्षत्रम् ) क्षत्रिय राजा को (वै) निश्चय से, (निर् नयति) राष्ट्र से बाहर निकाल देता है, (वर्चः) क्षत्रिय-राजा के वर्चस् का (हन्ति) हनन कर देता है, (आरब्धः) सब ओर लगी हुई ( अग्नि: इव ) अग्नि के सदृश (सर्वम् ) सबको (विदुनोति) उपतप्त कर देता है, जला देता है, (यः) जो क्षत्रिय-राजा कि (ब्राह्मणम् ) ब्रह्मज्ञ और वेदज्ञ को (अन्नम् एव) अन्न ही (मन्यते) मानता है (सः) वह (तैमातस्य) जल में घुले ( विषस्य) विष का (पिबति) मानो पान करता है।
टिप्पणी -
[दुनोति=दु उपतापे (स्वादिः)। तैमातस्य=तिम आर्दीभावे (दिवादिः)।]