अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
यः कृ॒णोति॑ प्र॒मोत॑म॒न्धं कृ॒णोति॒ पूरु॑षम्। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठय: । कृ॒णोति॑ । प्र॒ऽमोत॑म् । अ॒न्धम् । कृ॒णोति॑ । पुरु॑षम् । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.४॥
स्वर रहित मन्त्र
यः कृणोति प्रमोतमन्धं कृणोति पूरुषम्। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठय: । कृणोति । प्रऽमोतम् । अन्धम् । कृणोति । पुरुषम् । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.४॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 4
भाषार्थ -
(यः) जो यक्ष्म (पूरुषम्) पुरुष को (प्रमोतम्) मूक अर्थात् गूंगा (कृणोति) कर देता है, और (अन्धम् कृणोति) अन्धा कर देता है, (ते) तेरे (सर्वम्) उस सब प्रकार के (शीर्षण्यम् रोगम्) शिरोगत यक्ष्म रोग को, (बहिः निर्मन्त्रयामहे) हम चिकित्सक, पृथक् कर देते हैं (मन्त्र १)।