अथर्ववेद - काण्ड 12/ सूक्त 2/ मन्त्र 27
सूक्त - भृगुः
देवता - मृत्युः
छन्दः - त्रिष्टुप्
सूक्तम् - यक्ष्मारोगनाशन सूक्त
उत्ति॑ष्ठता॒ प्र त॑रता सखा॒योऽश्म॑न्वती न॒दी स्य॑न्दत इ॒यम्। अत्रा॑ जहीत॒ ये अस॒न्नशि॑वाः शि॒वान्त्स्यो॒नानुत्त॑रेमा॒भि वाजा॑न् ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒त॒ । प्र । त॒र॒त॒ । स॒खा॒य॒: । अश्म॑न्ऽवती । न॒दी । स्य॒न्द॒ते॒ । इ॒यम् । अत्र॑ । ज॒ही॒त॒ । ये । अस॑न् । अशि॑वा: । शि॒वान् । स्यो॒नान् । उत् । त॒रे॒म॒ । अ॒भि । वाजा॑न् ॥२.२७॥
स्वर रहित मन्त्र
उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम्। अत्रा जहीत ये असन्नशिवाः शिवान्त्स्योनानुत्तरेमाभि वाजान् ॥
स्वर रहित पद पाठउत् । तिष्ठत । प्र । तरत । सखाय: । अश्मन्ऽवती । नदी । स्यन्दते । इयम् । अत्र । जहीत । ये । असन् । अशिवा: । शिवान् । स्योनान् । उत् । तरेम । अभि । वाजान् ॥२.२७॥
अथर्ववेद - काण्ड » 12; सूक्त » 2; मन्त्र » 27
Translation -
O friends, rise up erect, this stormy stream of the world is flowing fast before us. Abandon in it your malignant sins, let us obtain powers benign and friendly.