अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 29
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
यो वै तां ब्रह्म॑णो॒ वेदा॒मृते॒नावृ॑तां॒ पुर॑म्। तस्मै॒ ब्रह्म॑ च ब्रा॒ह्माश्च॒ चक्षुः॑ प्रा॒णं प्र॒जां द॑दुः ॥
स्वर सहित पद पाठय: । वै । ताम् । ब्रह्म॑ण: । वेद॑ । अ॒मृते॑न । आऽवृ॑ताम् । पुर॑म् । तस्मै॑ । ब्रह्म॑ । च॒ । ब्रा॒ह्मा: । च॒ । चक्षु॑: । प्रा॒णम् । प्र॒ऽजाम् । द॒दु॒: ॥२.२९॥
स्वर रहित मन्त्र
यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम्। तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥
स्वर रहित पद पाठय: । वै । ताम् । ब्रह्मण: । वेद । अमृतेन । आऽवृताम् । पुरम् । तस्मै । ब्रह्म । च । ब्राह्मा: । च । चक्षु: । प्राणम् । प्रऽजाम् । ददु: ॥२.२९॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 29
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
(यः) जो [मनुष्य] (वै) निश्चय करके (ब्रह्मणः) ब्रह्म [परमात्मा] की (अमृतेन) अमरपन [मोक्षसुख] से (आवृताम्) छायी हुई (ताम्) उस (पुरम्) पूर्णता को (वेद) जानता है, (तस्मै) उस [मनुष्य] को (ब्रह्म) ब्रह्म [परमात्मा] (च च) और (ब्राह्माः) ब्रह्मसम्बन्धी बोधों ने (चक्षुः) दृष्टि, (प्राणम्) प्राण [जीवनसामर्थ्य] और (प्रजाम्) प्रजा [मनुष्य आदि] (ददुः) दिये हैं ॥२९॥
भावार्थ - यह गत मन्त्र का उत्तर है। ब्रह्मज्ञानी पुरुष दिव्य दृष्टिवाला और महाबली होकर सब प्रकार से परिपूर्ण होता हुआ आनन्द भोगता है ॥२९॥
टिप्पणी -
२९−(यः) मनुष्यः (वै) निश्चयेन (ताम्) (ब्रह्मणः) परमेश्वरस्य (वेद) जानाति (अमृतेन) अमरणेन। मोक्षसुखेन (आवृताम्) आच्छादितम् (पुरम्) म० २८। पूर्तिम् (तस्मै) मनुष्याय (ब्रह्म) परमेश्वरः (च) (ब्राह्माः) सास्य देवता। पा० ७।२।२४। ब्रह्मन्-अण्, टिलोपः। ब्रह्मसम्बन्धिनो बोधाः (च) (चक्षुः) दृष्टिम् (प्राणम्) जीवनसामर्थ्यम् (प्रजाम्) मनुष्यादिरूपाम् (ददुः) दत्तवन्तः ॥