अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 15
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मै॒ वासः॒ पर्य॑दधा॒त्को अ॒स्यायु॑रकल्पयत्। बलं॒ को अ॑स्मै॒ प्राय॑च्छ॒त्को अ॑स्याकल्पयज्ज॒वम् ॥
स्वर सहित पद पाठक: । अ॒स्मै॒ । वास॑: । परि॑ । अ॒द॒धा॒त् । क: । अ॒स्य॒ । आयु॑: । अ॒क॒ल्प॒य॒त् । बल॑म् । क: । अ॒स्मै॒ । प्र । अ॒य॒च्छ॒त् । क: । अ॒स्य॒ । अ॒क॒ल्प॒य॒त् । ज॒वम् ॥२.१५॥
स्वर रहित मन्त्र
को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्। बलं को अस्मै प्रायच्छत्को अस्याकल्पयज्जवम् ॥
स्वर रहित पद पाठक: । अस्मै । वास: । परि । अदधात् । क: । अस्य । आयु: । अकल्पयत् । बलम् । क: । अस्मै । प्र । अयच्छत् । क: । अस्य । अकल्पयत् । जवम् ॥२.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 15
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
(कः) विधाता [परमेश्वर] ने (अस्मै) इस [मनुष्य] को (वासः) निवासस्थान (परि) सब ओर से (अदधात्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] का (आयुः) आयु [जीवनकाल] (अकल्पयत्) बनाया है। (कः) विधाता ने (अस्मै) इस [मनुष्य] को (बलम्) बल (प्र अयच्छत्) दिया है, (कः) विधाता ने (अस्य) इस [मनुष्य] के (जवम्) वेग को (अकल्पयत्) रचा है ॥१५॥
भावार्थ - परमेश्वर ने मनुष्य के पुरुषार्थ अनुसार उसे उन्नति के अनेक साधन दिये हैं ॥१५॥
टिप्पणी -
१५−(कः) म० ५। विधाता (अस्मै) मनुष्याय (वासः) वसेर्णित्। उ० ४।११८। वस निवासे आच्छादने च-असुन्, णित्। निवासस्थानम्। वस्त्रम् (परि) सर्वतः (अदधात्) धृतवान् (कः) (अस्य) मनुष्यस्य (आयुः) जीवनकालम् (अकल्पयत्) रचितवान् (बलम्) सामर्थ्यम् (कः) परमेश्वरः (प्रायच्छत्) दत्तवान् (कः) (अस्य) (अकल्पयत्) (जवम्) वेगम् ॥