अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 6
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - जगती
सूक्तम् - ब्रह्मप्रकाशन सूक्त
कः स॒प्त खानि॒ वि त॑तर्द शी॒र्षणि॒ कर्णा॑वि॒मौ नासि॑के॒ चक्ष॑णी॒ मुख॑म्। येषां॑ पुरु॒त्रा वि॑ज॒यस्य॑ म॒ह्मनि॒ चतु॑ष्पादो द्वि॒पदो॑ यन्ति॒ याम॑म् ॥
स्वर सहित पद पाठक: । स॒प्त । खानि॑ । वि । त॒त॒र्द॒ । शी॒र्षणि॑ । कर्णौ॑ । इ॒मौ । नासि॑के॒ इति॑ । चक्ष॑णी॒ इति॑ । मुख॑म् । येषा॑म् । पु॒रु॒ऽत्रा । वि॒ऽज॒यस्य॑ । म॒ह्यनि॑ । चतु॑:ऽपाद: । द्वि॒ऽपद॑: । यन्ति॑ । याम॑म् ॥२.६॥
स्वर रहित मन्त्र
कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्। येषां पुरुत्रा विजयस्य मह्मनि चतुष्पादो द्विपदो यन्ति यामम् ॥
स्वर रहित पद पाठक: । सप्त । खानि । वि । ततर्द । शीर्षणि । कर्णौ । इमौ । नासिके इति । चक्षणी इति । मुखम् । येषाम् । पुरुऽत्रा । विऽजयस्य । मह्यनि । चतु:ऽपाद: । द्विऽपद: । यन्ति । यामम् ॥२.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 6
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
(कः) कर्त्ता [परमेश्वर] ने [मनुष्य के] (शीर्षणि) मस्तक में (सप्त) सात (खानि) गोलक (वि ततर्द) खोदे, (इमौ कर्णौ) यह दोनों कान, (नासिके) दोनों नथने, (चक्षणी) दोनों आँखें और (मुखम्) एक मुख। (येषाम्) जिनके (विजयस्य) विजय की (मह्मनि) महिमा में (चतुष्पादः) चौपाये और (द्विपदः) दोपाये जीव (पुरुत्रा) अनेक प्रकार से (यामम्) मार्ग (यन्ति) चलते हैं ॥६॥
भावार्थ - कर्ता जगदीश्वर ने मस्तक के सातों गोलक अमूल्य पदार्थ बनाये हैं। जो प्राणी जितेन्द्रिय होकर इनको वेदविहित कर्मों में लगाते हैं, वे सुखी होते हैं ॥६॥
टिप्पणी -
६−(कः) म० ५। कर्ता। जगदीश्वरः (सप्त) (खानि) म० १। छिद्राणि (वि ततर्द) तर्द हिंसायाम्। विदारितवान् (शीर्षणि) शिरसि (कर्णौ) (इमौ) (नासिके) नासाछिद्रे (चक्षणी) अर्तिसृधृ०। उ० २।१०२। चक्षिङ् व्यक्तायां वाचि दर्शने च-अनि। चक्षुषी (मुखम्) (येषाम्) (पुरुत्रा) बहुविधम् (विजयस्य) (मह्मनि) सर्वधातुभ्यो मनिन्। उ० ४।१४५। मह पूजायाम्−मनिन्। महत्त्वे (चतुष्पादः) गवाश्वादयः पशवः (द्विपदः) पक्षिमनुष्यादयः (यन्ति) गच्छन्ति (यामम्) अर्तिस्तुसुहुसृधृ०। उ० १।१४०। या प्रापणे−मन्। मार्गम् ॥