अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 22
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
केन॑ दे॒वाँ अनु॑ क्षियति॒ केन॒ दैव॑जनीर्विशः। केने॒दम॒न्यन्नक्ष॑त्रं॒ केन॒ सत्क्ष॒त्रमु॑च्यते ॥
स्वर सहित पद पाठकेन॑ । दे॒वान् । अनु॑ । क्षि॒य॒ति॒ । केन॑ । दैव॑ऽजना: । विश॑: । केन॑ । इ॒दम् । अ॒न्यत् । नक्ष॑त्रम् । केन॑ । सत् । क्ष॒त्रम् । उ॒च्य॒ते॒ ॥२.२२॥
स्वर रहित मन्त्र
केन देवाँ अनु क्षियति केन दैवजनीर्विशः। केनेदमन्यन्नक्षत्रं केन सत्क्षत्रमुच्यते ॥
स्वर रहित पद पाठकेन । देवान् । अनु । क्षियति । केन । दैवऽजना: । विश: । केन । इदम् । अन्यत् । नक्षत्रम् । केन । सत् । क्षत्रम् । उच्यते ॥२.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 22
विषय - मनुष्यशरीर की महिमा का उपदेश।
पदार्थ -
वह [मनुष्य] (केन) किस के द्वारा (देवान्) स्तुतियोग्य गुणों, और (केन) किस के द्वारा (दैवजनीः) दैव [पूर्वजन्म के अर्जित कर्म] से उत्पन्न (विशः अनु) मनुष्यों में (क्षियति) रहता है। (केन) किस के द्वारा (इदम्) यह (सत्) सत्य (क्षत्रम्) राज्य, और (केन) किसके द्वारा (अन्यत्) दूसरा [भिन्न] (नक्षत्रम्) अराज्य (उच्यते) बताया जाता है ॥२२॥
भावार्थ - विचारशील मनुष्य उत्तम गुणों और उत्तम लोगों से मिलने, धर्मयुक्त राज्य की विधि और अधर्मयुक्त कुराज्य के निषेध पर विचार करे। इस का उत्तर आगामी मन्त्र में है ॥२२॥
टिप्पणी -
२२−(केन) केन द्वारा (देवान्) दिव्यगुणान् (अनु) अनुलक्ष्य (क्षियति) निवसति (केन) (दैवजनीः) देवाद् यञञौ। वा० पा० ४।१।८५। देव-अञ्। दैवात् पूर्वजन्मार्जितकर्मणो जाताः (विशः) प्रजाः। मनुष्यान्-निघ० २।३ (केन) (इदम्) प्रत्यक्षम् (अन्यत्) भिन्नम् (नक्षत्रम्) नभ्राण्नपान्नवेदानासत्या०। पा० ६।३।७५। इति नञः प्रकृतिभावः, नक्षत्रम् अक्षत्रम् अराज्यं कुराज्यम् (केन) (सत्) सत्यम्। धर्म्यम् (क्षत्रम्) राज्यम् (उच्यते) कथ्यते ॥