अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 13
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ वातो॒ वन॒स्पती॑न्वृ॒क्षान्भ॒नक्त्योज॑सा। ए॒वा स॒पत्ना॑न्मे भङ्ग्धि॒ पूर्वा॑ञ्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठयथा॑ । वात॑: । वन॒स्पती॑न् । वृ॒क्षान् । भ॒नक्ति॑ । ओज॑सा । ए॒व । स॒ऽपत्ना॑न् । मे॒ । भ॒ङ्ग्धि॒ । पूर्वा॑न् । जा॒तान् । उ॒त । अप॑रान् । व॒र॒ण: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥३.१३॥
स्वर रहित मन्त्र
यथा वातो वनस्पतीन्वृक्षान्भनक्त्योजसा। एवा सपत्नान्मे भङ्ग्धि पूर्वाञ्जाताँ उतापरान्वरणस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठयथा । वात: । वनस्पतीन् । वृक्षान् । भनक्ति । ओजसा । एव । सऽपत्नान् । मे । भङ्ग्धि । पूर्वान् । जातान् । उत । अपरान् । वरण: । त्वा । अभि । रक्षतु ॥३.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 13
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(यथा) जैसे (वातः) वायु (वनस्पतीन्) वनस्पतियों [बिना फूल-फल देनेवाले पीपल आदि] और (वृक्षान्) वृक्षों को (ओजसा) बल से (भनक्ति) तोड़ता है, (एव) वैसे ही (मे) मेरे (सपत्नान्) शत्रुओं को (भङ्ग्धि) तोड़ डाल, (पूर्वान्) पहिले (जातान्) उत्पन्नों (उत) और (अपरान्) पिछलों को (वरणः) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (त्वा) तेरी (अभि) सब ओर से (रक्षतु) रक्षा करे ॥१३॥
भावार्थ - मनुष्य आत्मिक और शारीरिक बल से वायुसमान शीघ्रगामी होकर दोषों और शत्रुओं का नाश करे ॥१३॥
टिप्पणी -
१३−(यथा) येन प्रकारेण (वातः) वायुः (वनस्पतीन्) पुष्पं विना जायमानफलान् अश्वत्थादीन् वृक्षान् (वृक्षान्) स्थावरयोनिविशेषान् विटपान् (भनक्ति) छिनत्ति (ओजसा) बलेन (एव) तथा (सपत्नान्) शत्रून् (मे) मम (भङ्ग्धि) भिन्धि (पूर्वान्) प्रथमान् (जातान्) उत्पन्नान् (उत्) अपि (अपरान्) अर्वाचीनान् (वरणः) म० १। स्वीकरणीयः (त्वा) (अभि) सर्वतः (रक्षतु) पातु ॥