अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 6
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
स्वप्नं॑ सु॒प्त्वा यदि॒ पश्या॑सि पा॒पं मृ॒गः सृ॒तिं यति॒ धावा॒दजु॑ष्टाम्। प॑रिक्ष॒वाच्छ॒कुनेः॑ पापवा॒दाद॒यं म॒णिर्व॑र॒णो वा॑रयिष्यते ॥
स्वर सहित पद पाठस्वप्न॑म् । सु॒प्त्वा । यदि॑ । पश्या॑सि । पा॒पम् । मृ॒ग: । सृ॒तिम् । यति॑ । धावा॑त् । अजु॑ष्टाम् । प॒रि॒ऽक्ष॒वात् । श॒कुने॑: । पा॒प॒ऽवा॒दात् । अ॒यम् । म॒णि: । व॒र॒ण: । वा॒र॒यि॒ष्य॒ते॒ ॥३.६॥
स्वर रहित मन्त्र
स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम्। परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥
स्वर रहित पद पाठस्वप्नम् । सुप्त्वा । यदि । पश्यासि । पापम् । मृग: । सृतिम् । यति । धावात् । अजुष्टाम् । परिऽक्षवात् । शकुने: । पापऽवादात् । अयम् । मणि: । वरण: । वारयिष्यते ॥३.६॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 6
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(यदि) जो तू (सुप्त्वा) सोकर (पापम्) बुरे (स्वप्नम्) स्वप्न को (पश्यासि) देखे, (यति=यदि) जो (मृगः) वनैला पशु (अजुष्टाम्) अप्रिय (सृतिम्) मार्ग में (धावात्) दौड़े। (शकुनेः) पक्षी [गिद्ध वा चील्ह] के (परिक्षवात्) नाक के फुरफुराहट से और (पापवादात्) [मुख के] कठोर शब्द से (अयम्) यह (मणिः) प्रशंसनीय (वरणः) वरण [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (वारयिष्यते) रोकेगा ॥६॥
भावार्थ - मनुष्य आत्मिक और शारीरिक बल बढ़ाकर कुस्वप्न आदि रोगों और हिंसक पशुओं और पक्षियों की दुष्टता से निर्भय रहें ॥६॥
टिप्पणी -
६−(स्वप्नम्) सुप्तस्य मानसिकवृत्तिभेदम् (सुप्त्वा) शयित्वा (यदि) सम्भावनायाम् (पश्यासि) अवलोकेथाः (पापम्) दुःखप्रदम् (मृगः) अरण्यपशुः (सृतिम्) मार्गम् (यति) दस्य तः। यदि (धावात्) शीघ्रं गच्छेत् (अजुष्टाम्) अप्रियाम् (परिक्षवात्) टुक्षु नासाशब्दे-अप्। नासातो वायुनिःसरणजन्यशब्दात् (शकुनेः) पक्षिणः। गृध्रचिल्हादेः (पापवादात्) दुष्टशब्दात्। अन्यद् व्याख्यातम् ॥