अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 8
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यन्मे॑ मा॒ता यन्मे॑ पि॒ता भ्रात॑रो॒ यच्च॑ मे॒ स्वा यदेन॑श्चकृ॒मा व॒यम्। ततो॑ नो वारयिष्यते॒ऽयं दे॒वो वन॒स्पतिः॑ ॥
स्वर सहित पद पाठयत् । मे॒ । मा॒ता । यत् । मे॒ । पि॒ता । भ्रात॑र: । यत् । च॒ । स्वा: । यत् । एन॑: । चकृ॒म: । व॒यम् । तत॑: । न॒: । वा॒र॒यि॒ष्य॒ते॒ । अ॒यम् । दे॒व: । वन॒स्पति॑: ॥३.८॥
स्वर रहित मन्त्र
यन्मे माता यन्मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम्। ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥
स्वर रहित पद पाठयत् । मे । माता । यत् । मे । पिता । भ्रातर: । यत् । च । स्वा: । यत् । एन: । चकृम: । वयम् । तत: । न: । वारयिष्यते । अयम् । देव: । वनस्पति: ॥३.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 8
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(यत्) जो कुछ (एनः) पाप (मे माता) मेरी माता ने, (यत्) जो कुछ (मे पिता) मेरे पिता ने, (यत्) जो कुछ (मे भ्रातरः) मेरे भाइयों ने (च) और (स्वाः) ज्ञातिवालों ने और (यत्) जो कुछ (वयम्) हमने (चकृम) किया है (ततः) उस से (नः) हमको (अयम्) यह (देवः) दिव्य गुणवाला (वनस्पतिः) सेवनीय गुणों का रक्षक [पदार्थ] (वारयिष्यते) बचावेगा ॥८॥
भावार्थ - मनुष्यों को योग्य है कि वे अपने बन्धुओं सहित सदा विवेकी और बलवान् रह कर पाप कर्म से बचें ॥८॥
टिप्पणी -
८−(यत्) यत् किञ्चित् (मे) मम (भ्रातरः) सहोदराः (स्वाः) ज्ञातयः (एनः) पापम् (चकृम) कृतवन्तः (ततः) पापात् (नः) अस्मान् (वारयिष्यते) प्रतिरोत्स्यते (अयम्) (देवः) दिव्यगुणः (वनस्पतिः) अ० ६।८५।१। वननीयानां सेवनीयानां गुणानां पालकः। अन्यत् सुगमम् ॥