अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 16
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
तांस्त्वं प्र च्छि॑न्द्धि वरण पु॒रा दि॒ष्टात्पु॒रायु॑षः। य ए॑नं प॒शुषु॒ दिप्स॑न्ति॒ ये चा॑स्य राष्ट्रदि॒प्सवः॑ ॥
स्वर सहित पद पाठतान् । त्वम् । प्र । छि॒न्ध्दि॒ । व॒र॒ण॒ । पु॒रा । दि॒ष्टात् । पु॒रा । आयु॑ष: । ये । ए॒न॒म् । प॒शुषु॑ । दिप्स॑न्ति । ये । च॒ । अ॒स्य॒ । रा॒ष्ट्र॒ऽदि॒प्सव॑: ॥३.१६॥
स्वर रहित मन्त्र
तांस्त्वं प्र च्छिन्द्धि वरण पुरा दिष्टात्पुरायुषः। य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥
स्वर रहित पद पाठतान् । त्वम् । प्र । छिन्ध्दि । वरण । पुरा । दिष्टात् । पुरा । आयुष: । ये । एनम् । पशुषु । दिप्सन्ति । ये । च । अस्य । राष्ट्रऽदिप्सव: ॥३.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 16
विषय - सब सम्पत्तियों के पाने का उपदेश।
पदार्थ -
(वरण) हे वरण ! [स्वीकार करने योग्य वैदिक बोध वा वरना औषध] (त्वम्) तू (तान्) उन [शत्रुओं] को (दिष्टात्) नियुक्त [प्रण] से (पुरा) पहिले और (आयुषः) आयु [के अन्त] से (पुरा) पहिले (प्र छिन्द्धि) काट डाल। (ये) जो (एनम्) इस [पुरुष] को (पशुषु) पशुओं के निमित्त (दिप्सन्ति) मार डालना चाहते हैं (च) और (ये) जो (अस्य) इसके (राष्ट्रदिप्सवः) राज्य के हानिकारक हैं ॥१६॥
भावार्थ - मनुष्य अपनी बुद्धि और बाहुबल से प्रजा और राज्य के हानिकारक शत्रुओं का नाश करे ॥१६॥
टिप्पणी -
१६−(तान्) शत्रून् (त्वम्) (प्र) (छिन्द्धि) भिन्धि (वरण) म० १। हे स्वीकरणीय (पुरा) पूर्वम् (दिष्टात्) नियुक्तात् प्रणयात् (पुरा) (आयुषः) जीवनान्तात् (ये) शत्रवः (एनम्) प्राणिनम् (पशुषु) पशूनां निमित्ते (दिप्सन्ति) दम्भितुं हन्तुमिच्छन्ति (ये) (च) (अस्य) (राष्ट्रदिप्सवः) राज्यं विनाशयितुमिच्छवः ॥