अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 15
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
आयम॑ग॒न्युवा॑ भि॒षक्पृ॑श्नि॒हाप॑राजितः। स वै स्व॒जस्य॒ जम्भ॑न उ॒भयो॒र्वृश्चि॑कस्य च ॥
स्वर सहित पद पाठआ । अ॒यम् । अ॒ग॒न् । युवा॑ । भि॒षक् । पृ॒श्नि॒ऽहा । अप॑राऽजित: । स: । वै । स्व॒जस्य॑ । जम्भ॑न: । उ॒भयो॑: । वृश्चि॑कस्य । च॒ ॥४.१५॥
स्वर रहित मन्त्र
आयमगन्युवा भिषक्पृश्निहापराजितः। स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥
स्वर रहित पद पाठआ । अयम् । अगन् । युवा । भिषक् । पृश्निऽहा । अपराऽजित: । स: । वै । स्वजस्य । जम्भन: । उभयो: । वृश्चिकस्य । च ॥४.१५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 15
विषय - सर्प रूप दोषों के नाश का उपदेश।
पदार्थ -
(अयम्) यह (युवा) युवा (पृश्निहा) स्पर्श करनेवाले [सर्प] का नाश करनेवाला, (अपराजितः) न हारा हुआ (भिषक्) वैद्य (आ अगन्) आया है। (सः) वह (वै) निश्चय करके (उभयोः) दोनों (स्वजस्य) स्वज [लिपट जानवाले सर्पविशेष] (च) और (वृश्चिकस्य) डङ्क मारनेवाले बिच्छू का (जम्भनः) नाश करनेवाला है ॥१५॥
भावार्थ - बलवान् चतुर वैद्य सब प्रकार के विषैले जीवों का नाश करे ॥१५॥
टिप्पणी -
१५−(आ अगन्) आगतवान् (अयम्) प्रसिद्धः (भिषक्) चिकित्सकः (पृश्निहा) घृणिपृश्निपार्ष्णि०। उ० ४।५२। स्पृश स्पर्शे-नि, सलोपः+हन हिंसागत्योः-क्विप्। स्पर्शनशीलानां सर्पाणां नाशकः (अपराजितः) अनभिभूतः (सः) भिषक् (वै) निश्चयेन (स्वजस्य) म० १०। आलिङ्गनशीलस्य सर्पस्य (जम्भनः) नाशकः (वृश्चिकस्य) छेदनशीलस्य कीटस्य (च) ॥