अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 5
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
पै॒द्वो ह॑न्ति कस॒र्णीलं॑ पै॒द्वः श्वि॒त्रमु॒तासि॒तम्। पै॒द्वो र॑थ॒र्व्याः शिरः॒ सं बि॑भेद पृदा॒क्वाः ॥
स्वर सहित पद पाठपै॒द्व: । ह॒न्ति॒ । क॒स॒र्णील॑म् । पै॒द्व: । श्वि॒त्रम् । उ॒त । अ॒सि॒तम् । पै॒द्व: । र॒थ॒र्व्या: । शिर॑: । सम् । बि॒भे॒द॒ । पृ॒दा॒क्वा: ॥४.५॥
स्वर रहित मन्त्र
पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम्। पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥
स्वर रहित पद पाठपैद्व: । हन्ति । कसर्णीलम् । पैद्व: । श्वित्रम् । उत । असितम् । पैद्व: । रथर्व्या: । शिर: । सम् । बिभेद । पृदाक्वा: ॥४.५॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 5
विषय - सर्प रूप दोषों के नाश का उपदेश।
पदार्थ -
(पैद्वः) शीघ्रगामी [पुरुष] (कसर्णीलम्) बुरे मार्ग में छिपे हुए और (पैद्वः) शीघ्रगामी हो (श्वित्रम्) श्वेत (उत) और (असितम्) काले [साँप] को (हन्ति) मारता है। (पैद्वः) शीघ्रगामी ने (रथर्व्याः) दौड़ती हुई (पृदाक्वाः) फुँसकारती हुई [साँपिन] का (शिरः) शिर (सम् बिभेद) तोड़ डाला था ॥५॥
भावार्थ - फुरतीला वीर पुरुष पूर्वज शूरों के समान साँप और साँपिन रूप शत्रुओं और शत्रुसेना का नाश करे ॥५॥
टिप्पणी -
५−(पैद्वः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। पद गतौ-व प्रत्ययः, अस्यैकारः पैद्वः=अश्वः-निघ० १।१४। शीघ्रगामी पुरुषः (हन्ति) नाशयति (कसर्णीलम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। क+सरणी+लीङ् श्लेषणे−ड, अकारलोपः। कोः कादेशः। कु कुत्सितायां सरण्यां मार्गे लीनं श्लिष्टम् (पैद्वः) (श्वित्रम्) अ० ३।२७।६। श्वेतम् (उत) अपि च (असितम्) अ० ३।२७।१। कृष्णसर्पम् (रथर्व्या) रथर्यतिर्गतिकर्मा-निघ० २।१४। कॄगॄशॄदॄभ्यो वः। उ० १।१५५। रथर् गतौ-च। जातेरस्त्री०। पा० ४।१।६३। ङीप्। शीघ्रगामिन्याः सर्पिण्याः (शिरः) (सम्) सम्यक् (बिभेद) चिच्छेद (पृदाक्वाः) अ० १।२७।१। पर्द कुत्सिते शब्दे−कः कु, ऊङ्। कुत्सितशब्दकारिण्याः सर्पिण्याः ॥