अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 20
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः। ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ॥
स्वर सहित पद पाठअही॑नाम् । सर्वे॑षाम् । वि॒षम् । परा॑ । व॒ह॒न्तु॒ । सिन्ध॑व: । ह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: ॥४.२०॥
स्वर रहित मन्त्र
अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः। हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥
स्वर रहित पद पाठअहीनाम् । सर्वेषाम् । विषम् । परा । वहन्तु । सिन्धव: । हता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: ॥४.२०॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 20
विषय - सर्प रूप दोषों के नाश का उपदेश।
पदार्थ -
(सिन्धवः) नदियाँ (सर्वेषाम्) सब (अहीनाम्) महाहिंसक [साँपों] के (विषम्) विष को (परा वहन्तु) दूर बहा ले जावें (तिरश्चिराजयः) तिरछी धारीवाले, (पृदाकवः) फुँसकारनेवाले साँप (हताः) मार डाले गये और (निपिष्टासः) कुचिल डाले गये [हों] ॥२०॥
भावार्थ - मनुष्य सर्पसमान दुःखदायी दुर्गुणों को ऐसा नष्ट करे, जैसे मल आदि को पानी में बहा देते हैं ॥२०॥
टिप्पणी -
२०−(अहीनाम्) म० १। सर्पाणाम् (सर्वेषाम्) (विषम्) (परा) दूरे (वहन्तु) नयन्तु (सिन्धवः) नद्यः। अन्यत् पूर्ववत्−म० १३ ॥