अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 7
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्। इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ॥
स्वर सहित पद पाठइ॒दम् । पै॒द्व: । अ॒जा॒य॒त॒ । इ॒दम् । अ॒स्य॒ । प॒रा॒ऽअय॑नम् । इ॒मानि॑ । अर्व॑त: । प॒दा । अ॒हि॒ऽघ्न्य: । वा॒जिनी॑ऽवत: ॥४.७॥
स्वर रहित मन्त्र
इदं पैद्वो अजायतेदमस्य परायणम्। इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥
स्वर रहित पद पाठइदम् । पैद्व: । अजायत । इदम् । अस्य । पराऽअयनम् । इमानि । अर्वत: । पदा । अहिऽघ्न्य: । वाजिनीऽवत: ॥४.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 7
विषय - सर्प रूप दोषों के नाश का उपदेश।
पदार्थ -
(इदम्) अब (पैद्वः) शीघ्रगामी पुरुष (अजायत) प्रकट हुआ है, (इदम्) यह (अस्य) इसका (परायणम्) पराक्रम का मार्ग है। (अर्वतः) शीघ्रगामी (अहिघ्न्यः) महाहिंसक [साँपों] के मारनेवाले (वाजिनीवतः) अन्नयुक्त क्रियावाले [पुरुष] के (इमानि) यह (पदा) पदचिह्न हैं ॥७॥
भावार्थ - पूर्वज महात्माओं के चरित्रों पर चलकर मनुष्य आगे बढ़े ॥७॥
टिप्पणी -
७−(इदम्) इदानीम् (पैद्वः) म० ५। शीघ्रगामी (अजायत) प्रादुरभवत् (इदम्) (अस्य) पुरुषस्य (परायणम्) परा पराक्रमयुक्तम् अयनं मार्गः (इमानि) (अर्वतः) अ० ६।९२।२। ऋ गतौ-वनिप्। शीघ्रगामिनः। विज्ञानिनः (पदा) पदचिह्नानि (अहिघ्न्यः) अघ्न्यादयश्च। उ० ४।११२। अहि+हन हिंसागत्योः-यक्। सुपां सुलुक्०। पा० ७।१।३९। षष्ठ्याः सुः। अहिघ्न्यस्य महाहिंसकस्य सर्पस्य नाशकस्य (वाजिनीवतः) अ० ४।३८।६। अन्नवतीक्रियायुक्तस्य ॥