अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 12
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तेने॒मां म॒णिना॑ कृ॒षिम॒श्विना॑व॒भि र॑क्षतः। स भि॒षग्भ्यां॒ महो॑ दुहे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तेन॑ । इ॒माम् । म॒णिना॑ । कृ॒षिम् । अ॒श्विनौ॑ । अ॒भि । र॒क्ष॒त॒: । स: । भि॒षक्ऽभ्या॑म् । मह॑: । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१२॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तेनेमां मणिना कृषिमश्विनावभि रक्षतः। स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तेन । इमाम् । मणिना । कृषिम् । अश्विनौ । अभि । रक्षत: । स: । भिषक्ऽभ्याम् । मह: । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 12
विषय - सब कामनाओं की सिद्धि का उपदेश।
पदार्थ -
(यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को.... म० ११ (अबध्नात्) बाँधा है। (तेन) उस (मणिना) मणि [प्रशंसनीय वैदिक नियम] से (इमाम् कृषिम्) इस खेती की (अश्विनौ) कामों में व्याप्तिवाले दोनों [स्त्री पुरुष] (अभि रक्षतः) रक्षा करते रहते हैं (सः) वह [वैदिक नियम] (भिषग्भ्याम्) उन दोनों वैद्यों के लिये (महः) बड़ाई (भूयोभूयः) बहुत-बहुत... म० ६ ॥१२॥
भावार्थ - वैदिक विज्ञान द्वारा स्त्री-पुरुष खेती रूप इस संसार के व्यवहार के सिद्ध कर के सुख भोगें ॥१२॥
टिप्पणी -
१२−(तेन) (इमाम्) (मणिना) प्रशंसनीयेन वैदिकनियमेन (कृषिम्) कृषिरूपं संसारम् (अश्विनौ) अ० २।२९।६। कार्येषु व्यापिनौ स्त्रीपुरुषौ (अभि रक्षतः) (सः) (भिषग्भ्याम्) वैद्याभ्यां स्त्रीपुरुषाभ्याम्। अन्यत् पूर्ववत्−म० ६ ॥