अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 2
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - मणि बन्धन सूक्त
वर्म॒ मह्य॑म॒यं म॒णिः फाला॑ज्जा॒तः क॑रिष्यति। पू॒र्णो म॒न्थेन॒ माग॑म॒द्रसे॑न स॒ह वर्च॑सा ॥
स्वर सहित पद पाठवर्म॑ । मह्य॑म् । अ॒यम् । म॒णि: । फाला॑त् । जा॒त: । क॒रि॒ष्य॒ति॒ । पू॒र्ण: । म॒न्थेन॑ । मा॒ । आ । अ॒ग॒म॒त् । रसे॑न । स॒ह । वर्च॑सा ॥६.२॥
स्वर रहित मन्त्र
वर्म मह्यमयं मणिः फालाज्जातः करिष्यति। पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥
स्वर रहित पद पाठवर्म । मह्यम् । अयम् । मणि: । फालात् । जात: । करिष्यति । पूर्ण: । मन्थेन । मा । आ । अगमत् । रसेन । सह । वर्चसा ॥६.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 2
विषय - सब कामनाओं की सिद्धि का उपदेश।
पदार्थ -
(फालात्) फल के [देने में] ईश्वर [परमात्मा] से (जातः) उत्पन्न हुआ (अयम्) यह (मणिः) मणि [प्रशंसनीय वैदिक नियम] (मह्यम्) मेरे लिये (वर्म) कवच (करिष्यति) बनावेगा। (मन्थेन) मथन [सूक्ष्म विचार] से (पूर्णः) पूर्ण [वह वैदिक नियम] (मा) मुझको (रसेन) बल और (वर्चसा सह) प्रताप के साथ (आ अगमत्) प्राप्त हुआ है ॥२॥
भावार्थ - मनुष्य ईश्वरप्रणीत वेद के सूक्ष्म विचार से बली और प्रतापी होवे ॥२॥
टिप्पणी -
२−(वर्म) कवचम् (मह्यम्) (अयम्) (मणिः) अ० ८।५।१। स्तुत्यो वैदिकनियमः (फालात्) तस्येश्वरः। पा० ५।१।४२। फल-अण्। फलस्येश्वरात्। परमेश्वरात् (जातः) प्रादुर्भूतः (करिष्यति) (पूर्णः) पूरितः (मन्थेन) मथनेन। सूक्ष्मविचारेण (मा) माम् (आ अगमत्) प्राप्तवान् (रसेन) बलेन (सह) (वर्चसा) प्रतापेन ॥