अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 16
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवा: । बिभ्र॑त: । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । स: । ए॒भ्य॒: । जिति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१६॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं देवा बिभ्रतो मणिं सर्वांल्लोकान्युधाजयन्। स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । देवा: । बिभ्रत: । मणिम् । सर्वान् । लोकान् । युधा । अजयन् । स: । एभ्य: । जितिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 16
विषय - सब कामनाओं की सिद्धि का उपदेश।
पदार्थ -
(यम्) जिस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को... म० ११ (अबध्नात्) बाँधा है। (तम्) उस (मणिम्) मणि [प्रशंसनीय वैदिक नियम] को (बिभ्रतः) धारण करते हुए (देवाः) विजयी लोगों ने (सर्वान् लोकान्) सब लोकों को (युधा) युद्ध से (अजयन्) जीता है। (सः) वह [वैदिक नियम] (एभ्यः) इन [विजयी लोगों] के लिये (इत्) ही (जितिम्) जीत (भूयोभूयः) बहुत-बहुत.... म० ॥१६॥
भावार्थ - जिस प्रकार पुरुषार्थी लोगों ने ईश्वरनियम पर चलकर विजय पाया है, वैसे ही सब मनुष्य वेदविद्या द्वारा निरालसी होकर दुःखों से अलग होवें ॥१६॥
टिप्पणी -
१६−(देवाः) विजिगीषवः पुरुषाः (बिभ्रतः) धारयन्तः (सर्वान् लोकान्) (युधा) युद्धेन (अजयन्) जितवन्तः (एभ्यः) देवेभ्यः (जितिम्) जयम्। अन्यत् पूर्ववत् ॥