अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 1
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - गायत्री
सूक्तम् - मणि बन्धन सूक्त
अराती॒योर्भ्रातृ॑व्यस्य दु॒र्हार्दो॑ द्विष॒तः शिरः॑। अपि॑ वृश्चा॒म्योज॑सा ॥
स्वर सहित पद पाठअ॒रा॒ति॒ऽयो: । भ्रातृ॑व्यस्य । दु॒:ऽहार्द॑: । द्वि॒ष॒त: । शिर॑: । अपि॑ । वृ॒श्चा॒मि॒ । ओज॑सा ॥६.१॥
स्वर रहित मन्त्र
अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः। अपि वृश्चाम्योजसा ॥
स्वर रहित पद पाठअरातिऽयो: । भ्रातृव्यस्य । दु:ऽहार्द: । द्विषत: । शिर: । अपि । वृश्चामि । ओजसा ॥६.१॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 1
विषय - सब कामनाओं की सिद्धि का उपदेश।
पदार्थ -
(अरातीयोः) कंजूसी करनेवाले, (भ्रातृव्यस्य) भ्रातृभाव से रहित, (दुर्हार्दः) दुष्ट हृदयवाले (द्विषतः) द्वेषी के (शिरः) शिर को (ओजसा) बल के साथ (अपि वृश्चामि) मैं काटे देता हूँ ॥१॥
भावार्थ - प्रतापी मनुष्य शत्रुओं के मारने में सदा समर्थ होवे ॥१॥
टिप्पणी -
१−(अरातीयोः) मृगय्वादयश्च। उ० १।३७। अराति+या गतिप्रापणयोः-कु। अदानशीलस्य। अनुदारस्य (भ्रातृव्यस्य) अ० २।१८।१। भ्रातृभावरहितस्य (दुर्हार्दः) अ० २।७।५। दुष्टहृदयस्य (द्विषतः) शत्रोः (शिरः) (अपि वृश्चामि) अवच्छिनद्मि (ओजसा) बलेन ॥