अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 50
सूक्त - सिन्धुद्वीपः
देवता - प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - विजय प्राप्ति सूक्त
अ॒पाम॑स्मै॒ वज्रं॒ प्र ह॑रामि॒ चतु॑र्भृष्टिं शीर्षभिद्याय वि॒द्वान्। सो अ॒स्याङ्गा॑नि॒ प्र शृ॑णातु॒ सर्वा॒ तन्मे॑ दे॒वा अनु॑ जानन्तु॒ विश्वे॑ ॥
स्वर सहित पद पाठअ॒पाम् । अ॒स्मै॒ । वज्र॑म् । प्र । ह॒रा॒मि॒ । चतु॑:ऽभृष्टिम् । शी॒र्ष॒ऽभिद्या॑य । वि॒द्वान् । स: । अ॒स्य॒ । अङ्गा॑नि । प्र । शृ॒णा॒तु॒ । सर्वा॑ । तत् । मे॒ । दे॒वा: । अनु॑ । जा॒न॒न्तु॒ । विश्वे॑ ॥५.५०॥
स्वर रहित मन्त्र
अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान्। सो अस्याङ्गानि प्र शृणातु सर्वा तन्मे देवा अनु जानन्तु विश्वे ॥
स्वर रहित पद पाठअपाम् । अस्मै । वज्रम् । प्र । हरामि । चतु:ऽभृष्टिम् । शीर्षऽभिद्याय । विद्वान् । स: । अस्य । अङ्गानि । प्र । शृणातु । सर्वा । तत् । मे । देवा: । अनु । जानन्तु । विश्वे ॥५.५०॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 50
विषय - शत्रुओं के नाश का उपदेश।
पदार्थ -
(विद्वान्) विद्वान् मैं (अस्मै) इस [शत्रु पर] (शीर्षभिद्याय) शिर तोड़ने के लिये (अपाम्) जलों का (चतुर्भृष्टिम्) चौफाले (वज्रम्) वज्र [अस्त्र] को (प्र हरामि) चलाता हूँ। (सः) वह [वज्र] (अस्य) उस के (सर्वा) सब (अङ्गानि) अङ्गों को (प्र शृणातु) चूर-चूर कर डाले, (मे) मेरे (तत्) उस [कर्म] को (विश्वे) सब (देवाः) विद्वान् लोग (अनु जानन्तु) मान लेवें ॥५०॥
भावार्थ - राजा चारों ओर चोट करनेवाले वारुणेय [जल में छूटनेवाले] अस्त्र [इसी प्रकार आग्नेय, वायव्य अस्त्र] से शत्रु का नाश करके विद्वानों में कीर्ति पावे ॥५०॥
टिप्पणी -
५०−(अपाम्) जलानाम् (अस्मै) शत्रवे (वज्रम्) आयुधम् (प्र हरामि) प्रक्षिपामि (चतुर्भृष्टिम्) भृशु अधःपतने भ्रस्ज पाके वा-क्तिन्। चतस्रो भृष्टयोऽयःफालानि यस्मिन् तं वज्रम् (शीर्षभिद्याय) भिदिर् विदारणे-क्यप्। शिरोभेदनाय (सः) वज्रः (अस्य) शत्रोः (अङ्गानि) (प्र शृणातु) चूर्णीकरोतु (तत्) कर्म (मे) मम (देवाः) विद्वांसः (अनु जानन्तु) स्वीकुर्वन्तु (विश्वे) सर्वे ॥