अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 36
सूक्त - कौशिकः
देवता - मृत्यु
छन्दः - पञ्चपदातिशाक्वरातिजागतगर्भाष्टिः
सूक्तम् - विजय प्राप्ति सूक्त
जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः। इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥
स्वर सहित पद पाठजि॒तम् । अ॒स्माक॑म् । उत्ऽभि॑न्नम् । अ॒स्माक॑म् । अ॒भि । अ॒स्था॒म् । विश्वा॑: । पृत॑ना: । अरा॑ती: । इ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णस्य॑ । अ॒मुष्या॑: । पु॒त्रस्य॑ । वर्च॑: । तेज॑: । प्रा॒णम् । आयु॑: । नि । वे॒ष्ट॒या॒मि॒ । इ॒दम् । ए॒न॒म् । अ॒ध॒राञ्च॑म् । पा॒द॒या॒मि॒ ॥५.३६॥
स्वर रहित मन्त्र
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः। इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥
स्वर रहित पद पाठजितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वा: । पृतना: । अराती: । इदम् । अहम् । आमुष्यायणस्य । अमुष्या: । पुत्रस्य । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥५.३६॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 36
विषय - विद्वानों के कर्तव्य का उपदेश।
पदार्थ -
(जितम्) जय किया गया (अस्माकम्) हमारा [हो], (उद्भिन्नम्) निकासी किया हुआ (अस्माकम्) हमारा [हो], (विश्वाः) सब (पृतनाः) [शत्रुओं की] सेनाओं और (अरातीः) कञ्जूसियों को (अभि अस्थाम्) मैंने रोक दिया है। (इदम्) अब (अहम्) मैं (आमुष्यायणस्य) अमुक पुरुष के और (अमुष्याः) अमुक स्त्री के (पुत्रस्य) पुत्र का (वर्चः) प्रताप, (तेजः) तेज (प्राणम्) प्राण और (आयुः) जीवन को (नि वेष्टयामि) लपेटे लेता हूँ, (इदम्) अब (एनम्) इसको (अधराञ्चम्) नीचे (पादयामि) गिराता हूँ ॥३६॥
भावार्थ - प्रजापालक शूर वीर पुरुष एक शत्रु को जीतकर उसकी आय से सुप्रबन्ध करे और दूसरे प्रसिद्ध-प्रसिद्ध वैरियों को इसी प्रकार अधीन करे ॥३६॥
टिप्पणी -
३६−(जितम्) जयेन प्राप्तम् (अस्माकम्) धर्मात्मनाम् (उद्भिन्नम्) उद्भेदनं स्फुरणम्। आयधनम् (अस्माकम्) (अभि अस्थाम्) अभिभूतवानस्मि (विश्वाः) सर्वाः (पृतनाः) अ० ३।२१।३। शत्रुसेनाः (अरातीः) अदानशक्तीः। अनुदारताः (इदम्) इदानीम् (अहम्) शूरः (आमुष्यायणस्य) अ० ४।१६।९। नडादिभ्यः फक्। पा० ४।१।९९। अमुष्य−फक्। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च। वा० पा० ६।३।२१। षष्ठ्या अलुक्। अमुष्य पुरुषस्य पुत्रस्य (अमुष्याः) अमुकजनन्याः (पुत्रस्य) सुतस्य (वर्चः) प्रतापम् (तेजः) प्रकाशम् (प्राणम्) (आयुः) जीवनम् (नि) नितराम् (वेष्टयामि) आच्छादयामि (इदम्) (एनम्) शत्रुम् (अधराञ्चम्) अधोगतम् (पादयामि) पातयामि ॥